________________
१८४
স্বীমানিনাঘবনি
महहुणगणाऽऽधारं धीवराऽध्यासितं तथा । साथं सितपटीस्फोतं संसाराम्बुधितारकम् ॥ ७२ ॥ देवताऽधिष्ठितं जेनवाक्यवत्रैगमान्वितम् । तकं स्वीकृतं तेन यानं द्रव्येण सुन्दरम् ॥ ७३ ॥ (युग्मम्) तत्र संक्रामितं भाण्डं योग्यं देशान्तरस्य यत् ।
आरूढश्व स्वयं श्रेष्ठिसुतो वेलासमागमे ॥ १४ ॥ 'ततोऽनुकूलपवनप्रेरितं गुरुरंहसा। ययो महासमुद्रे तदतीत्य बहुयोजनीम् ॥ ७५ ॥
गृहीताम्रफलं वक्ते समायान्तं विहायसा। । ददर्शकमथान्येद्युः राजकोरमसो पुरः ॥ ७६ ॥ परिश्रमवशादेनं पतन्तं वारिधर्जले । धारयित्वाऽऽत्मनः पाखें धीवरैरानिनाय च ॥ ७७॥ जलवाताऽऽदिदानेन स्वस्थीभूत: क्षणेन सः । मुक्त्वा चञ्चुपुटादामफलं कौरवरोऽवदत् ॥ ७८ ॥ सार्थाधिनाथ ! ते नैवोपकर्तुं शक्यते मया । जीवितव्यप्रदानं यत् त्वया चक्रे ममाधुना ॥ ८ ॥ जीवितं ददता मेऽद्य साधो ! जीवापितो त्वया । महत्तजीवनावन्धी वृद्धी मत्पितरावपि ॥ ८० ॥ तत: किमुपकुर्वेऽहं तवातुल्योपकारिणः । तथाऽप्येतत् मयाऽऽनीतं फलं चूतस्य गृह्यताम् ॥ ८१ ॥
(१) स ध झ वेलाानुकूल-।