________________
६८
श्रीशान्तिनाथचरित्रे
इतो दिनात्सप्तमेऽहन्यतीते तेन मे पुरः |
इति प्रोचे यथा भद्रे प्रचण्डो राक्षसोऽस्माहम् ॥ ३८ ॥
मानुषामिषलुब्धेन मयेहागत्य मारितः ।
नगरे निखिलो लोको रक्षिता त्वं तु कारणात् ॥ ३८ ॥ सप्तमे दिवसे लग्नं शुभग्रह निरीक्षितम् ।
तत्र त्वां परिणेष्यामि करिष्यामि स्वगेहिनीम् ॥ ४० ॥ तदद्य सप्तमदिनं समयोऽयं तदागतेः । यावत्रायात्यसौ तावत् याहि त्वं सुन्दराकृते ॥ ४१ ॥ धनदः स्माह मुग्धे त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनैवासौ मरिष्यति करेण मे ॥ ४२ ॥ सोचे तर्हि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥ ४३ ॥ तस्मिंश्च समयेनासावुत्तिष्ठति न जल्पति |
अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ४४ ॥ आगान्निशाचरः सोऽथ गृहीत्वा नृशवं करे । विलोक्य धनदं चाग्रे सप्रहासमदोऽवदत् ॥ ४५ ॥ अहो आश्चर्यमायातं भक्ष्यमद्य मम स्वयम् । इत्युदित्वाऽवज्ञयैव मुमोच मृतकं च तत् ॥ ४६ ॥ विद्यां पूजयितुं यावत् प्रवृत्तोऽसौ तदाऽमुना । इत्युक्तः खड्गमाकृष्य त्वां हनिष्याम्यरेऽधुना ॥ ४७ ॥ अवज्ञया हसन् सोऽथ कृतपूजो निपातित: । तेन खङ्गेन सद्योऽपि पातयित्वा शिरो भुवि ॥ ४८ ॥