SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः । तेनैव कृतयोहाहसामग्रमा परिणीतवान् । धनदो रूपयुक्तां तां नाना तिलकसुन्दरीम् ॥ ४८ ॥ भोगान् भुला तया साई दिनानि कतिचित्ततः । तां सारवस्तु चादायाययो तत्रैव कूपके ॥ ५० ॥ वलित्वा च समानीतं तेन वस्तु मनः प्रियम् ।। भूयश्चक्रेश्वरी मार्गे वन्दिता भक्तिपूर्वकम् ॥ ५१ ॥ आगात्प्रवहणं किञ्चित् तदा तद्दीपसन्निधौ। तस्मिंश्च कूपके तस्मान्नरा नौरार्थमाययुः ॥ ५२ ॥ रज्जुः क्षिप्ताऽथ तैस्तत्र तां धृत्वा धनदोऽवदत् । पतितोऽस्मेष कूपे तत् मामुत्तारयतानघाः ॥ ५३ ॥ तैश्च तद्देवदत्तस्य सार्थवाहस्य सत्वरम् । आख्यातं सोऽपि तत्रागात्कोतुकात्पूर्ण मानसः ॥ ५४ ॥ बवा वरत्रया कूपे प्रक्षिप्ता मञ्चिका ततः । तस्यामारुह्य धनदो बहिः कूपाहिनिर्ययौ ॥ ५५ ॥ तं दृष्ट्वा सुन्दराकारं वस्त्राभरणभूषितम् ।। अतीव विस्मित: सार्थवाहः पप्रच्छ गौरवात् ॥ ५६ ॥ कोऽसि त्वं भद्र कूपेऽत्र पतितोऽस्यथवा कथम् । सोऽवदन्मम भार्याऽपि पतिताऽस्त्यत्र सार्थप ॥ ५७ ॥ अन्यच्च देवतादत्तं वस्तु रत्नादिकं च 'नः । कृष्ट्वा तत्कथयिष्यामि सर्वशुद्धि तवात्मनः ॥ ५८ ॥ (१) ज तत् ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy