________________
द्वितीयः प्रस्तावः ।
इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । महेन्द्रराजो नाम्नाऽभूत्तत्र राजा पिता मम ॥ २७ ॥ अन्यदा विग्टहीतस्यान्यभूपैस्तस्य सन्निधौ।। आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ २८ ॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् । मोऽवदत् कुरु साहाय्यं शवन् मम विनाशय ॥ २८ ॥ व्यन्तरोऽप्यब्रवीन्नैते शक्या हन्तुं मया सखे । यतो मदधिरेतेऽधिष्ठिता व्यन्तरैः खलु ॥ ३० ॥ करोमि किन्तु साहाय्य मित्युक्त्वा तेन मत्यिता । सपोरः सपरीवार इहानीतो झटित्यपि ॥ ३१ ॥ पुरं चाकारि तेनेदं पातालपुरनामकम् । प्रवेशनिर्गमाविककूपनैवास्य सुन्दर ॥ ३२ ॥ रक्षार्थ कूपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणेरत्र नानावस्तुसमागमः ॥ ३३ ॥ एवं गच्छति कालेऽत्र राक्षस: कश्चिदन्यदा। कूपप्रवेशसोपानपङ्क्तिं भक्त्वा समाययो ॥ ३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्त: खादितुं जनान् । कियद्भिश्च दिनैश्चक्रे पुरमेतदमानुषम् ॥ ३५ ॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥ ३६ ॥ एवं च विहिता तेन शून्येयं नगरहयो। एकैव रक्षिताऽहं तु परिणतुं दुरात्मना ॥ ३७ ।।