SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । ५८ अनयंशोलरत्नाढ्या रत्नचले ति तस्य तु । जन्ने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ ४६॥ अभिमानधनो धीमान् धर्मोपाजनतत्परः । तयोः पुत्रः कलापानं बभूव धनदाभिधः ॥ ४७ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्द कैनित्यं पुरदेव्या निकेतने ॥ ४८ ॥ स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ ४८ ॥ अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधीरुष्टो देवतामित्यभाषत ॥ ५० ॥ तव देवकुले नित्यं रममाणस्य मे न यत् । द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ ५१ ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे । अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ ५२ ॥ देवतोवाच रे दुष्ट त्वत्पित्रा किं त्वयाऽथवा । द्रव्यमस्त्यर्पितं मे यत् याचसे सहसैव तत् ॥ ५३ ॥ ततः पाषाणमुद्यम्य सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ ५४ ॥ दध्यौ च देवता नास्या कृत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुन: ॥ ५५ ॥ (१) चञ -मुत्पाब्य । (२) ज भङ्गयिष्यामि ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy