________________
५८
श्रीशान्तिनाथचरित्रे
आसीनो धर्ममाचष्टे विद्याधरसभान्तरे ॥ ३५ ॥ अवान्तरे चारणर्षिद्वितयं नभसा व्रजन् । सनातनजिनान्नन्तुं तं ददर्श जिनालयम् ॥ ३६ ॥ तच्चेत्यवन्दनाहेतोरवतीर्णौ ततश्च तौ । उपवेश्यासने राज्ञा वन्दितौ भक्तिपूर्वकम् ॥ ३७ ॥ तत्त्रैकः साधुराचख्यौ राजन् जानासि चेत्स्वयम् । तथापि धर्ममाख्यातुमुचितो नस्ततः शृणु ॥ ३८ ॥ मानुष्यकादिसामग्रीं लब्धा ज्ञात्वा भवस्थितिम् । धर्मो निरन्तरं कार्यों निरन्तर सुखार्थिभिः ॥ ३८ ॥ मनसाऽप्यन्तरे तस्य कृते स्यात्सुखमन्तरा । जातं मत्स्योदराख्यस्य धनदस्येव निश्चितम् ॥ ४० ॥ पृच्छति स्म ततो राजा भक्तिभाक् रचिताञ्जलिः । मुने मत्स्योदरः कोऽयं कथ्यतां तत्कथा मम ॥ ४१ ॥ मुनिरूचेऽव भरतक्षेत्रे त्रिदशपूः समम् | विख्यातमस्ति कनकपुरं नाम पुरं भुवि ॥ ४२ ॥ द्विषत्कोपानलप्रौढोक्कततेजाः सुवर्णवत् । बभूव तत्र कनकरथो नाम्ना महीपतिः ॥ ४३ ॥ तस्याग्रमहिषी रूपसम्पदा रतिजित्वरी । कनकश्रोर्विनयादिगुणैर्नारोवराऽभवत् ॥ ४४ ॥ औदार्य्यादिगुणाधारो रत्नसारोऽभिधानतः । अभूत्तत्र राजमान्य: 'श्रेष्ठो धर्मिष्ठधुर्यकः ॥ ४५ ॥
(१) घ श्रेष्ठशो धर्मधुर्य्यकः ।