________________
४२
श्रीशान्तिनाथचरित्रे
ततोऽग्रसैन्ययोयुद्धे जाते विद्याधरैः कृताः । रक्षोव्याघ्रपिशाचाद्याः हिंसाः परविनाशकाः ॥ ७० ॥ त्रिपृष्ठ सेना तभीता पलायिष्ट ततः स्वयम् । डुढौके खेचोडुं रथारूढोऽचलानुजः ॥ ७१ ॥ शङ्ख च पूरयामास तन्नादेन निजं बलम् । युद्धसज्ज पुनरभूत् परानीकं च विद्रुतम् ॥ ७२ ॥ डुढौके स्वयमखोऽपि योडु स्यन्दनसंस्थितः । त्रिपृष्ठेन समं सिंह: शरभेणेव सत्वरम् ॥ ७३ ॥ दिव्यास्त्रैर्युयुधे सोऽथ त्रिपृष्ठस्ता नि लीलया। सर्वाण्यच्छेदयामास तमांसीव विकर्तनः ॥ १४ ॥ ततश्च सोऽमुचच्चक्रं त्रिपृष्ठाय भयावहम् । तच्च वक्षसि तुम्बेन प्राजापत्यमताडयत् ॥ १५ ॥ स्थितं तत्रैव तदथोपादाय तमुवाच सः । कत्वा मम नमस्कारं रे 'स्वमारं निवारय ॥ ७६ ॥ अश्वग्रोवोऽवदन्मृत्युवरं वैरिप्रणामतः । तन्मञ्च चक्रं को वक्र दैवं नामानुकूलयेत् ॥ ७७॥ ततो मुक्तं त्रिपृष्ठेन छित्त्वा तस्य शिरोधराम् । पुनरागात् त्रिपृष्ठस्य समीपेऽसौ मुदर्शनम् ॥ ७८ ॥ प्रथमो वासुदेवोऽयमुत्पन्न इति वादिनः । उपरिष्टात् त्रिपृष्ठस्य पुष्पवृष्टिं व्यधुः सुराः ॥ ८ ॥
(१) ग ङ मारिम् ।