________________
द्वितीयः प्रस्तावः ।
हरिश्मश्रुरथामात्यः परिणीतां स्वयंप्रभाम् ।। श्रुत्वा कुतश्चित्कथयामासाखग्रोवभूभुजे ॥ ६० ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तो त्रिपृष्ठाचली बध्वा खेचरं तं च मायिनम् ॥ ६१ ॥ प्रेषितचामुना दूतः स गत्वा पोलने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ ६२ ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ॥ ज्वलनोऽप्यब्रवीहत प्रदत्ता कन्यका मया। त्रिपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ ६४ ॥ ऊचे त्रिपृष्ठो रे दूत परिणीता मया ह्यसौ। . इमामिच्छन् स ते स्वामी निविणो जीवितान्नु किम् ॥६५॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुर्धरः । विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो विषः ॥ ६६ ॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयं नोदिताः । लीलयव जिताः सर्वे त्रिपृष्ठेन महौजसा ॥ ६७ ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः। । चेच्छरोऽसि तदाखेहि रथावत्तेऽस्तु नौ समित् ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्याते स विद्याधरमैन्य युक् । तत्राययो त्रिपृष्ठश्च 'ससैन्यं श्वशुरालये ॥ ६८ ॥
(१) ख घ ससैन्यः ।