________________
४०
श्रीशान्तिनाथचरित्रे
द्वितीयं पादचारित्वं टतीयं खगमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥ ५० ॥ इत्युत्पत्याम्बरे रोषात् पतितो मस्तकोपरि। प्रचिक्षेप कुमारो द्राक् करी केशरिणो मुखे ॥ ५१ ॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरीण तु। अधरं दारयामास तं ततो जीर्ण पोतवत् ॥ ५२ ॥ विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषेण प्रोचे सारथिनांजसा ॥ ५३ ॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः । हतोऽसि सिंह सिंहेनाऽनुशयं भोः करोषि किम् ॥ ५४ ॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चखिग्रोवस्थापयत्तदा ॥ ५५ ॥ तेनैवादिष्टतत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्त्वं भुवान्धो मत्प्रसादतः ॥५६॥(युग्मम्) दृष्ट्वाऽऽकर्ण्य च 'तहाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येष दोर्बलेनामुना खलु ॥ ५७ ॥ जावोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि कृत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८ ॥ नीत्वा प्रच्छन्नमतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् ॥ ५८ ॥
(१) ख च छ तहीय ग्रीवो-।