________________
प्रथम: प्रस्तावः।
त्रैलोक्य सुन्दरी नाम राज्ञा पुत्री विवाहितम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडित: ॥ ३७॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ ३८ ॥ तच्छ्रुत्वा मङ्गलो ऽवीचदकत्यं किं करोष्यदः । क्क सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ ३८ ॥ कम्मेदं न करिष्यामि कथञ्चिदतिनिठुरम् । कूपे क्षिवा जनं मुग्धं वरनाकर्तनोपमम् ॥ ४० ॥ मन्त्राचे चेन्न कर्मेदं करिष्यसि सुदुमते । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ४१ ॥ इति निस्त्रिंशमावष्य भणितोऽपि सुबुद्धिना। अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ४२ ॥ प्रधानपुरुषैमन्त्री निषिद्धस्तस्य मारणात् । प्रभाणि सोऽपि मन्यस्व भद्र वं मन्त्रिणो वचः ॥ ४३ ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ ४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा। तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ ४५ ॥ विचिन्त्येदं पुन: स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कम्म निघृणम् ॥ ४६ ॥ तदाऽहमपि व: पार्वे नाथ नाथामि सर्वथा। मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ४७ ॥