________________
१४
श्रीशान्तिनाथचरित्र
ततो वटासमुत्तीर्य स भीत: शीतविह्वलः । हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ २७ ॥ तत्रोपान्तेऽखपालानां कुर्वाणो वह्निसेवनम् । यावदासौदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ २८ ॥ तावत्तेन 'नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । प्रात्मनः पार्खमानीतः कतश्च निरुपद्रवः ॥ २८ ॥ गोपयित्वाऽतियत्नेन प्रभातसमयेऽमुना। अपितोऽमात्यवर्गस्य रहे नीत्वा सगौरवम् ॥ ३० ॥ भोजनाच्छादनप्रायममात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशम् ॥ ३१ ॥ ततोऽसौ चिन्तयामास किमयं मम सत्कियाम् । कुरुते निर्गमं चैव यत्नाद्रक्षति मन्दिरात् ॥ ३२ ॥ पप्रच्छ चान्यदाऽमात्यं तात वैदेशिकस्य मे।। किमिदं माननं हन्त भवद्भिः क्रियतेऽधिकम् ॥ ३३ ॥ का नामषा पुरी को वा देशः को वाऽत्र भूपतिः । इति सत्यं ममाख्याहि विस्मयोऽत्र प्रवर्तते ॥ ३४ ॥ अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा। अङ्गाभिधानो देशश्च राजात्र सुरसुन्दर: ॥ ३५ ॥ सुबुद्धिर्नाम तस्याहं माननीयो महत्तमः । मयाऽऽनीतोऽसि वत्स त्वं कारणेन गरीयसा ॥ ३६ ॥
(१) ख धदुः नरेण वं ।
(२) घ -मात्यवर्य स्य।