________________
प्रथमः प्रस्तावः ।
अन्तरिक्षस्थितोवाच सा चैवं तस्य शृण्वतः ।। पुष्पाण्यानीय चारामाहच्छतो निजवेश्मनि ॥ १७ ॥ स एष बालको याति पुष्पभाजनपाणिकः।। परिणष्यति यो राजकन्यकां भाटकेन हि ॥ १८ ॥ तच्छ्रुत्वा विस्मितः सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ १८ ॥ गृहं गतस्य सा वाणी विस्मता तस्य देवती। हितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ॥ २० । अहो 'अद्यैव सा वाणी या श्रुता ह्यो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ॥ २१ ॥ सोऽचिन्तयदिदं यावत्तावदुत्पाद्य वात्यया । नोतो दूरतरारण्ये चम्पापुर्याः समीपरी ॥ २२ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसनमकरं ददर्शाग्रे सरोवरम् ॥ २३ ॥ तत्र वस्वाञ्चलापूतं पय: पौत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिथाय वद्रुमम् ॥ २४ ॥ तदा चास्तमितो भानुरवस्थापतितस्य हि। श्रेष्ठिपुत्रस्य तस्योपकारं कर्त्तमिवाक्षमः ॥ २५ ॥ कृत्वा दर्भटणैरज्जु तयाऽऽरुह्य च तं द्रुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ॥ २६ ॥
(१) ख ङ. अद्यापि ।