________________
१२
श्रीशान्तिनाथचरित्रे
मन्त्राचे त्वं स्वयं वेत्सि सर्वं दुःखस्य कारणम् । तथा कुरु यथा पुत्रो नोरोगाङ्गो भवेन्मम ॥ ७ ॥ देव्यूचे नान्यथाकर्त्तुं नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत थेयं प्रार्थना तव ॥ ८ ॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पूरुषम् । तदाकारं निराकल्यं कुतोऽप्यानीय मेऽपय ॥ तेनोद्दाह्य महाराजपुत्र कमललोचनाम् । अपयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ॥ १० ॥ 'देवतोचे पुरीद्वारे ऽखरच कनरान्तिके । शीतव्यथानिंरासार्थं अग्निसेवापरो हि यः ॥ ११ ॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् भवता ग्राह्यः पञ्चात्कुर्य्याद्यथोचितम् ॥ १२ ॥ ( युग्मम् )
इत्युक्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सवीं विवाहसामग्रीं प्रगुणोकुरुते स्म सः ॥ १३ ॥ अश्वपालनरं छन्नमाकार्य निजकं ततः ।
तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥ १४ ॥ इदमूचे च यः कचिदभ्येति भवदन्तिके ।
कुतोऽपि बालकः सो हि समर्व्यो मेऽविलम्बितम् ॥ १५ ॥ तं श्रेष्ठिनन्दनं तस्या वरं विज्ञाय भाविनम् ।
उज्जयिन्यां ययौ पुय्यां मन्त्रिणः कुलदेवता ॥ १६ ॥ (१) त्र देव्युवाच ।