________________
योग
योगमाहात्म्यम्
शास्त्रम् ॥३६॥
उर्व लोकगतेर्माग जगतो दर्शयन्निव ॥३१॥ एवं सदेवैर्देवेशैश्चक्रे निष्क्रमणोत्सवः । यं पश्यद्भिनिजदृशां नैनिमेष्यं कृतार्थितम् ॥३२॥ गत्वा सिद्धार्थकोद्याने मुमोच परमेश्वरः । कुसुमाभरणादीनि कषायानिव सवतः ॥३३॥ चतुर्भिमुष्टिभिः केशानुद्दधार जगदगुरुः । जिघृक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः ॥ ३४ ॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभते । केशवल्लय॑सावास्तामिति तो स्वाम्यधारयत् ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाञ्चले । स्वामिकेशा दधुदत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेशः केशान् क्षिप्त्वाभ्युपेत्य च । रङ्गाचार्य इवारक्षत्तुमुलं मुष्टिसंज्ञया ॥३७॥ सर्व सावा प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वनो रथमिवाध्यारुरोह जगत्पतिः ॥३८॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जज्ञे ज्ञानं प्रभोस्तुयें मनःपर्यायसंज्ञकम् ॥३९॥ राज्ञां सहस्राश्चत्वारोऽनुयान्तस्तं निजप्रभुम् । व्रतमाददिरे भक्त्या कुलीनानां क्रमो ह्यसौ ॥४०॥ ततः सर्वेष्वपीन्द्रा गतेषु स्वं स्वमालयम् । व्यहरत्तवृतः स्वामी युथनाथ इव द्विपैः॥४१॥ लोकैर्भिक्षास्वरूपा भिक्षार्थ भ्रमतः प्रभोः । अढौकि कन्येभाश्वादि धिगार्जवमपि कचित् ॥४२॥ न्याय्यामप्राप्नुवन् भिक्षां सहमानः परीपहान् । अदिनमानसः स्वामी मौनव्रतमुपाश्रितः ॥ ४३ ॥ श्रमणानां सहस्रीस्तैश्चतुर्भिरपि नाभिभूः । क्षुधातर्मुमुचे को वा ससत्त्वो भगवानिव ॥ ४४ ॥ बने मूलफलाहारा जज्ञिरे ते तु तापसाः । भावाटवीपथजुषो धिक्तान्मोक्षपथच्युतान् ॥४५॥ अथ कच्छमहाकच्छपुत्रावाज्ञागतौ कचित् । ईयतुर्नमिविनमी स्वामिन प्रतिमास्थितम् ॥ ४६ ॥ प्रणम्य तौ विज्ञपयाम्बभूवतुरिति प्रभुम् । आवयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥४७॥ न किश्चिदुचे भगवांस्तदा तौ सेवकावपि । निर्ममा हि न लिप्यन्ते
॥३६॥