________________
योगशास्त्रम्
॥३५॥
स्मरकृतावासे मधुमासे समेयुषि । अगादन्येद्युरुद्याने परिवारानुरोधतः ||१३|| गुञ्जद्भिः कुलमाकन्दमकरन्दोमालिभिः । मधुलक्ष्मीर्बभूव स्वागतिकीव जगत्प्रभोः || १४ || पूर्व्वरङ्ग इवारब्धे पञ्चमो चारिभिः पिकैः । अदर्शयल्लतालास्यं मलयानिललासकः || १५ || प्रतिशाखं विलग्नाभिः पुष्पोच्च यकुतूहलात् । स्त्रीभिस्तत्राभवन् वृक्षाः सब्जातस्त्रीकला इव ||१६|| पुष्पवासगृहासीनः पुष्पाभरणभूषितः । पुष्पगेन्दुकहस्तोऽभान्मधुर्मूर्त्त इव प्रभुः।।१७।। तत्र १ खेलायमानेषु निर्भरं भरतादिषु । दध्यौ स्वामी किमीदृक्षा क्रीडा दोगुन्दगेष्वपि ॥ १८ ॥ जज्ञेऽथावधिना स्वामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुखं भुक्तपृर्व्वं स्वयं च तत् ॥ १९ ॥ भूयोऽप्यचिन्तयदिदं विगलन्मोबन्धनः । धिगेष विषयाक्रान्तो वेत्ति नात्महित जनः || २० || अहो संसारकूपेऽस्मिन् जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनै हिरेया हिरां क्रियाम् ||२१|| इत्यासीन्मनसा यावद्विभुर्भवपराङ्मुखः । तावल्लोकान्तिका देवा एयुः सारस्वतादयः॥२२॥ बद्धैरञ्जलिभिर्मूर्ध्नि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिस्ती प्रवर्त्त ||२३|| गतेषु तेषु भगवानुद्यानान्नन्दनाभिधात् । व्यावृत्य गत्वा नगरीमा जुहावावनीपतीन् ||२४|| राज्येऽभ्यषिञ्चद्भरतं ज्येष्ठपुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ददौ ||२५|| सांवत्सरिकदानेन ततोऽतर्पीत्तथा भुवम् । देहीति दीनवाक्यश्च कश्विदासीद्यथा नहि ||२६|| अशासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोश्च कुगिरेखि पयोमुचः॥ २७॥ माल्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । स्वयशोभिरिवाशोभि परितः परमेश्वरः।।२८ विचित्रैरचितो वस्त्रे रत्नक्लृप्तैश्च भूषणैः । विभुर्वभासे सन्ध्याभ्रधिष्णैरिव मरुत्पथः ॥ २९ ॥ दिवि दुन्दुभिनादं च कारयामास वासवः । जगतो दददानन्दमसन्मान्तमिवात्मनि ||३०|| सुरासुररनरोद्वाह्यामारोहच्छिविकां विभुः ।
(१) दोलायमानेषु ।
योगमाहात्म्यम्
॥३५॥