________________ योगशास्त्रम् द्वादशः प्रकाशः 177 // विक्षिप्त चलमितस्ततो भ्राम्यदिति यावत् / यातं च बहिः आयातं चान्तरिति यातायातं. तत् किमपि सान | न्द, स्वात्मन्यभिनिवेशात् / तच्च चेतोद्वयमपि विक्षिप्त यातायात च प्रथमाभ्यासवर्तिनां भवति / विकल्पेन च बाह्यार्थग्रह उभयस्मिन् // 3 // तथा श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् / तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् // 4 // स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यत इति / निश्चल परमानन्दयुक्तं च मुलीनं / एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृहणाति, न तु बाह्यम् / / 4 // ततश्च-- एवं क्रमशोऽभ्यासावेशाध्यानं भजेनिरालम्बम् / समरसभोवं यातः परमानन्दं ततोऽनुभवेत् // 5 // क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायात चित्तमभ्यस्येत्, ततोऽपि विश्लिष्टं, ततोऽपि च मुलीनं, एवं पुन: पुनरभ्यासाभिरालम्ब ध्यानं भवेत् / ततः समरसभावप्राः परमानन्दमनुभवति // 5 // समरसभावप्राप्तियथा भवति तथाऽऽह 1199811