________________ योगशास्त्रम् // 765 // एकादशः प्रकाश पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते। को वा न गुणोत्कर्ष सविधे महतामवाप्नोति अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते। भवशतसंचितकर्मच्छेदं दृष्ट्वेव भौतानि३८ शमयन्ति तद्भ्यणे रजांसि गन्धजलवृष्टिभिर्देवाः / उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् // 39 // Bछत्रत्रयी पवित्रा विभोरुपरि भक्तितत्रिदशराजैः। गङ्गाश्रोतस्रितयीव धार्यते मण्डलीकृत्य // 4 // अयमेक एव नः प्रभुरित्याख्यातुं विडोजसोन्नमितः / अगुलिदण्ड इवोचैश्चकास्ति रत्नध्वजस्तस्य // 41 // अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते / वदनारविन्दसंपातिराजहंसभ्रमं दधति४२ प्राकारास्त्रय उच्चैविभान्ति समवसरणस्थितस्यास्य / कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव // 43 // चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः 765 //