________________ योगशास्त्रम् बकादशः प्रकाश // 76 // आयोजनशतमुग्रा रोगाः शाम्यन्ति तत्प्रभावेण / उदयिनि शोतमरीचाविव तापरुजः क्षितेः परितः // 29 // मारीतिदुर्भिक्षातिवृष्टयनावृष्टिडमरवैराणि / न भवन्त्यस्मिन् विहरति सहस्ररश्मी तमांसीव॥३०॥ मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः परितः / आविर्भवत्यनुवपुः प्रकाशयत्सर्वतोऽपि दिशः // 31 // संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि / भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः // 32 // अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च // तरवाऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदो // 33 // आरक्तपल्लवो शोकपादपः स्मेरकुसुमगन्धाब्यः। प्रकृतस्तुतिरिव मधुकरविरुतेर्विलसत्युपरि तस्य | षडपि समकालमृतवा भगवन्तं तं तदोपतिष्ठन्ते / स्मरसाहाय्यककरणे प्रायश्चित्तं ग्रहोतुमिव 35 || अस्य पुरस्तानिनदन् विजृम्भते दुन्दुभिर्नभसि तारम् / कुर्वाणा निर्वाणप्रयाणकल्याणमिव सद्यः