________________ योगशास्त्रम् // 753 // प्रकाराः अथ संस्थानविचयमाहअनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः। आकृति चिन्तयेद्यत्र संस्थानविचयः स तु॥१४॥ लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते / शेष स्पष्टम् // 14 // लोकध्यानस्य फलमाहनानाद्रव्यगतानन्तपर्यायपरिवर्तनात् / सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् // 15 // स्पष्टः अत्रान्तरश्लोकाः-- संस्थानविचयो लोकभावनायां अपश्चितः। तन्नेह वर्ण्यते भूयः पुनरुक्तत्वभीरुभिः // 1 // अथ लोकभावनायाः # संस्थानविचयस्य च / को नाम भेदो येनोभौ विभिन्नौ परिकीर्तितौ // 2 // उक्तमेतद्यथा चिन्तामात्रक लोक| भावना। स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते // // 15 // धर्मध्यानस्यैव स्वरूपविशेषमाहधर्मध्याने भवेद्भावः क्षायोपशमिकादिकः। लेश्याः क्रमविशुद्धाः स्युः पीतप सिताः पुनः॥१६॥ क्षायोपशमिकादिक इत्यादिग्रहणादौपशमिकस्य क्षायिकस्य च ग्रहणम्, न त्वौदयिकस्य / यदाहधर्म्यमप्रमत्तसंयतस्य उपशान्तक्षीणकषाययोश्च / धर्मध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथापीतलेश्या, ततो विदा पालेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्येति // 16 // ॥७५३शा