________________
योगशास्त्रम्
पञ्चमः प्रकाशः।
७००॥
एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिकदिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाच्चतुर्णा द्वादशा
मपनयने एतदेव भवति ॥१०६॥ तथागतिदिवसानेकनासाचारिणि मारुते । साशीतौ वासरशते गते मृत्युर्न संशयः ॥१०७॥
एकविंशति दिनानि वहति वायौ अशीत्यधिके दिनशते मृत्युः, चत्वारिंशदधिकशतद्वयात् पश्चानां द्वादशाहा_ नयने एतदेव भवति ॥१०॥ एकद्वित्रिचतुःपञ्चदिनषट्कक्रमक्षयात् । एकविंशोदिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१०॥ ____एकद्वित्रिचतुःपञ्चानां दिनषट्कानां क्रमेण क्षयात् एकविंशत्यादि पञ्चविंशतिपर्यन्तानि पश्च दिनानि
शोधयेत् ॥१०८॥ ___ तद्यथेति पूर्ववत्एकविंशत्यहं त्वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥१०९॥ __एकविंशति दिनानि वहति वायौ चतुःसप्तत्यधिके दिनशते मृत्युः, अशीत्यधिकशतादेकस्य षट्कस्यापनयने एतदेव भवति ॥१०९॥
तथा| द्वाविंशति दिनान्येवं सद्विषष्टावहःशते । पइदिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥११०॥
॥७००॥