________________
योगशाखम्।
पश्चमा प्रकाश
॥६९९॥
एकद्वित्रिचतुःपञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण क्षयस्ततः पोडशादीनि विंशत्यन्तानि पश्च दिनानि शोध्यानि ॥१०२॥
तद्यथेति विवृणोति-- | प्रवहत्येकनासायां षोडशाहोनि मारुते । जीवेत्सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥१०३॥
पोडश दिनानि पिङ्गलायां वहति वायावष्टचत्वारिंशदधिकां दिनशतत्रयीं जीवेत् , षटयधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥१०३।। तथावहमाने तथा सप्तदशाहानि समीरणे । अनां शतत्रये मृत्युश्चतुर्विंशतिसंयुते ॥१०४॥
सप्तदश दिनानि वहति वायौ चतुर्विशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयो
योरपनयने एतदेव भवति ॥१०४॥ तथा-- | वहति विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टोशीतिसंयुक्ते गते दिनशतद्वये ॥१०५॥
अष्टादश दिनानि वहति वायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विशत्यधिकशतत्रयात्त्रयाणां द्वाद
नामपनयने एतदेव भवति ॥१०५॥ तथा| चरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशद्युते याते मृत्युर्दिनशतद्वये ॥१०६॥
॥६९९॥