________________
योग शास्त्रम् ।
||६९०॥
स्पष्टाः ॥५३॥५४॥५५॥ ५६ ॥ एतेषामेव सूक्ष्मतरं फलमाह-शशाङ्करविमार्गेण वायो मण्डलेष्वमी । विशन्तः शुभदाः सर्वे निष्क्रामन्तोऽन्यथा स्मृताः ॥५७॥ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु अशुभावहाः ||५७ ॥
प्रवेशनिर्गमयोः शुभाशुभत्वे कारणमाह-
प्रवेशसमये वायुर्जीवो मत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्तादृक्फलमप्यनयोस्ततः ॥ ५८ ॥ स्पष्टः || ५८ || इदानीं वायोः शुभत्वमशुभत्वं मध्यमत्वं (च) नाडीभेदात् श्लोकद्वयेनाह-पथेन्दोरिन्द्रवरुणौ विशन्तौ सर्वसिद्धिदौ । रविमार्गेण निर्यान्तौ प्रविशन्तौ च मध्यमौ ॥ ५९ ॥ दक्षिणेन विनिर्यातौ विनाशायानिलानलौ । निःसरन्तौ विशन्तौ च मध्यमावितरेण तु ॥ ६० ॥ ॥ स्पष्टौ ॥५९॥६०॥ अथ नाडीरेवाह-
इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः । शशिसूर्यशिवस्थानं वामदक्षिण मध्यगाः ॥ ६१ ॥ वामगा इडा नाडी शशिनः स्थानं, दक्षिणगा पिङ्गला नाम रवेः स्थानं, मध्यमगा सुषुम्णा नाम शिवस्थानम् ॥ ६१ ॥ एतासु वायुसंचारे फलं श्लोकद्वयेनाह-
पञ्चमः प्रकाश ।
||६९० ॥