________________
योग शखिम्
॥६८९॥
पञ्चमः प्रकाशः।
उष्णः शीतश्व कृष्णश्च वहन् तिर्यगनारतम् । षडङ्गुलप्रमाणश्च वोयुः पवनसंज्ञितः ॥५०॥
स्पर्शेन कचिदुष्णः कचिच्छीतः, कृष्णो वर्णेन. तिर्यक् सततं वहन् षडङ्गुलप्रमाणो वायुः पवननामा ॥५०॥तथाबालादित्यसमज्योतिरत्युष्णश्चतुरंगुलः । आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥५१॥
बालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शन, चतुरङ्गुलप्रमाणः, आवर्तवान् , उध्वं वहन् दहननामा पवनः ॥५१॥
यस्मिन् वायौ यत्कार्य कुर्यात्तदाह-- ॥ इन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु। वायु मलिनलोलेषु वश्यादौ वहनिमादिशेत् ॥५२॥ ___स्तम्भस्तोभादिषु पुरन्दरं, प्रशस्तेषु कर्मसु वरुणं, मलिनेषु चलेषु च कर्मसु वायुं, वशीकरणादौ वह्निपवन मादिशेत् ॥५२॥ - इदानीमारब्धे कार्ये कार्यप्रश्ने च यो यदा वायुवहति तस्य फलं श्लोकचतुष्टयेनाहछत्रचामरहस्त्य श्वरामाराज्यादिसंपदम् । मनीषितं फलं वायुः समाचष्टे पुरन्दरः ॥५३॥ रामाराज्यादिसंपूर्णः पुत्रस्वजनबन्धुभिः। सारेण वस्तुना चापि योजयेद्वरुणः क्षणात् ॥५४॥ कृषिसेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभीः कलहो वैरं त्रासश्च पवनं भवेत् ॥५५॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् । संसूचयेद्विनाशं च दहनो दहनात्मकः ॥५६॥
६८|