________________
योगशास्त्रम्
॥६५३॥
रत्नसंचया वसुः वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरु देवकुरु कृष्णा कृष्णराजिः रामा रामरक्षिता चेति प्राग्दक्षिणाक्रमात् तत्र देवाः सर्वसम्पदन्तः स (स्व) परिवारानुगताः पुण्यतिथिषु सुरासुराविद्याधरादिपूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीपूजाः कुर्वन्ति । इह चाञ्जनेषु (४) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपञ्चाशत् राजधानीषु (च) द्वात्रिशज्जिनायतनानि केचित्तु षोडश मन्यन्ते । एतदर्थसंवादिन्यो गाथा:
१ जण कोडि सय तिसह चउरासीलक्खवलय विक्खंभो । अहमदीबो नंदीसरोऽत्थि सइ विलसिर सुरोहो ॥ १ ॥ तत्थ मज्झे चउरो दिसासु अंजनगिरी गवलवना । जोयणसहस्स चुलसीह मूसिया सहसमवगाढा ||२|| भूमितले दससहसा (१००००) चउनउइ सया (९४००) य सहसमुवरितले (१०००) पिहुला अडवीसंसत्तिगं (३ / २८) दसंसोय खयबुड्ढी ||३|| पुवदिसि देवरमणो निचुजोओ अ दाहिणदिसाए । अवरदिसाए सयंपभ रमणिज्जो उत्तरे पासे ||४|| (१) योजनकोटिशतत्रिपष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसितसुरौघः ॥१॥ तत्र मध्ये चत्वारो दिक्षु अब्जनगिरयो गवल (महिषशृङ्ग) वर्णाः । योजनसखचतुरशीतिमुच्छ्रिताः सहखमवगाढाः || २ | भूमितले दशसहखाः चतुर्नवदिशतानि च (भूमौ ) सहखमुपरिदले । पृथुला अष्टाविशांशत्रिकं दशांशश्च क्षयवृद्धी ॥ ३ पूर्वदिशि देवरमणो नित्योद्योतश्च दक्षिणदिशि । अपरदिशि स्वयंप्रभो रमणीय उत्तरे पार्श्वे ||४||
XXX
चतुर्थ प्रकाशः
॥६५३॥