________________
8
चतुर्थ
योगशास्रम्
प्रकाशः
६५२।
प्रत्येकमृषभावर्धमानावारिषेणाचन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां पर्यङ्कनिषण्णानां स्वपरिवारवृतानामष्टोत्तर शतं । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरप्रतिमे चामरधरप्रतिमे च भवतः, पृष्ठतश्छत्रधरप्रतिमैका । तानि च दामघण्टाधूपघटिकाऽष्टमङ्गलकतोरणध्वजपुष्पचङ्गेरिकापटलच्छवासनादिमन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षवाटकमणिपीठिकास्तूपप्रतिमाचैत्यवृक्षेन्द्रध्वजपुष्करिणीक्रमरचनानि । ___ अञ्जनगिरीणां चतुसषु दिक्षु प्रत्येकं लक्षयोजनमानाः पुष्करिण्यः, तद्यथा-नन्दिषेणा, अमोघा. गोस्तूपा, सुदर्शना । नन्दोत्तरा. नन्दा, सुनन्दा, नन्दिवर्धना । भद्रा, विशाला, कुमुदा पुण्डरीकिणी । विजया, वैजयन्ती जयन्ती अपराजिता प्राक्क्रमाद्गण्याः । तासां च प्रत्येकं पञ्चयोजनशत्याः परतो लक्षयोजनायामानि पञ्चयोजनशतीपृथूनि अशोकसप्तच्छदचम्पकचूताभिधानान्युद्यानानि । वापीनां च मध्ये स्फाटिका दधिमुखा ललामवेदि कोद्यानादिलाञ्छनाश्चतुःपष्टियोजनसहस्रोच्चा योजनसहखमवगाढा दशयोजनसहखाधोविस्तृताः तावदुपरि, पल्या कृतयः । केचित्त पुष्करिणीनामन्तरे द्वौ द्वौ रतिक पर्वातावाहुः । ते च द्वात्रिंशद्भवन्ति । दधिमुखेषु रतिकरेषु चाञ्जनवदायतनानि । द्वीपविदिक्षु रतिकाराश्चत्वारो दशयोजनसहखायामविष्कम्भा योजनसहस्रोच्चाः सर्वरत्नमया झल्लाकृतयः । तत्र दक्षिणयोः शक्रस्य उत्तरयोरीशानस्य अष्टाष्टानां महादेवीनां योजनशतसहस्राबाधस्थाना दिक्षु जम्बूद्वीपसमाः प्रत्येकं जिनायतनभूषिता अष्टाष्ट राजधान्यः सुजाता सौमनसा अर्चिाली प्रभाकरा पद्या शिवा शुचिरञ्जना भूतावतंसा गोस्तूपा सुदर्शना अमला अप्सरा रोहिणी नवमी चेति । तथा रत्ना रत्नोच्चया सर्वरत्ना
॥६५२॥