________________
योगशास्त्रम्
I[૬ઠ્ઠા
नमयः सप्तदशयोजनशतान्येकविंशान्युच्छ्रितः चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढो, योजनसह द्वाविशमधास्ताद्विस्तृतः सप्त योजनशतानि त्रयोविशानि मध्ये चत्वारि योजनशतानि चतुर्विंशान्युपरीति । न कदाचिदस्मात्परतो मनुष्या जायन्ते वा म्रियन्ते वा । येऽपि चारणविद्याधरर्द्धिप्राप्ता मनुष्यास्तमुल्लङ्घ्य परतो गतास्तेऽपि तत्र न म्रियन्ते, अत एव मानुषोत्तर इत्युच्यते । न च तत्परतो बादराग्निमेघविद्युन्नदीकालपरिवेषादयः । मानुषोत्तरादर्वा पुनः पञ्चत्रिंशति क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति संहरण विद्यद्धियोगात् सर्वेष्वर्धतृतीयेषु द्वीपेषु समेर्वादिशिखरेषु समुद्रद्वये चेति ॥
भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन, जम्बूद्वीपका लवणका इत्यादयो द्वीपसमुद्रविभागेन मनुष्या इति । ते च द्विविधा आर्या म्लेच्छाच । तत्रार्याः सार्धपञ्चविशतिजनपदप्रभवाः । जनपदास्तु विशिष्टनगरोपल क्षिता इमे तद्यथा
रायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा ३ य । कंचणपुरं कलिगा ४ वाणारसी चैव कासी ५ अ ॥१॥ साकेय कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसहाय ८ । कंपिल्लं पंचाला ९ अहिछत्ता जंगला १० चेव ॥२॥ (१) जंघाचारणविद्याचारणाः ||
१ राजगृहं मगधाः १ चंपा अङ्गा २ स्तथा तामलिप्तिर्वङ्गाय ३ । काञ्चनपुरं कलिङ्गा ४ वाणारसी चेव काशी ५ च ॥ १ ॥ साकेतं कोशला ६ गजपुरं च कुरवः ७ शौयं कुशार्ताश्च ८ काम्पील्यं पञ्चाला ९ अहिच्छत्रा जाङ्गलाश्चैव १० ||२||
चतुर्थ प्रकाशः
॥६४८॥