________________
योग
शास्त्रम् ॥६४७॥
धातकीखण्डे द्वाभ्यामिषुकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः, एभिरेव नामभिर्जम्बुद्वीपकसमसङ्ख्याः पूर्वार्धे चापराधे च चक्ररसंस्थिता ( जम्बूद्वीपसंबन्धि ) निषधादिसमोच्छ्रायाः कालोदधिलवणजलस्पर्शिनो वर्ष - धराः सेवाकारपर्वताः, अरधिवरसंस्थिताश्च वर्षा इति ॥
धातकीखण्ड परिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः ॥
कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः तदर्धे यावन्मानुषं क्षेत्रं । यश्च धातकीखण्डे मेर्वादीनां सेष्वाकारपर्वतानां सङ्ख्या विषयनियमः स एव पुष्करार्धे वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुणक्षेत्रादिविभागश्च । धातकीखण्ड पुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसह खेहींनो च्छ्रायाः (८५०००) षभिर्योजनशतैर्धरणितले हीनविष्कम्भाः तेषां प्रथमं काण्डं महामेरुतुल्यं (१०००) द्वितीयं सप्तभिर्योजनसहस्रैर्हीनं (५६०००) तृतीयमष्टाभिः (२८००० ) भद्रशालनन्दनवने महामेरुवत् सार्धपञ्चपञ्चाशद्योजन सहखोपरि पञ्चयोजनशतविस्तृतं सौमनसं, ततोऽष्टाविंशतियोजनसहखोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम् उपरि चाधश्च विष्कम्भोऽवगाहश्च ( १००० - १०००० - १००० ) तुल्यो महामेरुणा, चूलिका चेति ॥
"
तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयं पञ्च मेवः पञ्चत्रिंशत्क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः पञ्श्चोत्तराः कुरवः शतं षष्ट्यधिकं विजयानामिति ॥
ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्च
चतुर्थ प्रकाशः
II૬૩૭૫