________________
पोगशास्त्रम्
तृतीय प्रकाशा
॥४८१॥
श्रोतव्यम्, तद्कुर्वत आशातना । २० । गुरुणा आहूतस्य शिष्यस्य किमिति वचनम्, भणितव्यं च मस्तकेन वन्दे इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः।२२। गुरुणा ग्लानादिवैयावृत्यादिहेतोः 'इदं कुरु' इत्यादिष्टः 'त्वमेव किं न कुरुषे' इति 'त्वमलसः' इत्युक्ते 'त्वमप्यलसः' इति च शिष्यस्य तज्जातवचनम् । २३ ।
गुरोः पुरतो बहोः कर्कशस्योच्चैः स्वरस्य च शिष्येण वदनम् । २४। गुरौ कथां कथयति एवमेतत्' इत्यन्तराले शिष्यस्य वचनम् । २५। गुरौ धर्मकथां कथयति 'न स्मरसि त्वमेतमर्थम्, नायमर्थः संभवति' इति शिष्यस्य वचनम् । २६। गुरौ धर्म कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य 'साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् । २७। गुरौ धर्म कथयति 'इयं भिक्षावेला, सूत्रपौरुषीवेला, भोजनवेला' इत्यादिना शिष्येण पर्षद्भेदनम् । २८ । गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथाच्छेदनम् । २९। तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेष धर्मकथनम् । ३० । गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ । गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम् , अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम्, यदाह
संघट्टइत्ता कायेण तहा उवहिणामवि । खमेह अवराह मे वइज्ज न पुण त्ति अ॥ १ ॥ ३२ ॥ गुरोः शय्यासस्तारकादौ स्थान निषोदन शयनं चेति । ३३ । एतदर्थसंवादिन्यो गाथा
॥४८
(१) संघट्टय कायेन तथोपधीनामपि । क्षमस्वापराधं मे वदेद् न पुनरिति च ॥ १ ॥