________________
योगशास्त्रम्
तृतीय
प्रकाशा
॥४८॥
एवमहाजाएग तिगुत्तिसहि च हुंति चत्तारि । सेसेसुं खित्तेमुं पणवीसावस्सया हुंति ॥३०॥ 'तित्तीसनयराए' इत्युक्तमिति त्रयस्त्रिंशदाशातना विवेच्यन्ते-गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना मार्गदर्शनादिकारणे तु न दोषः, गुरोःपार्थाभ्यामपि गमनम्, पृष्ठतोऽप्यासनगमनम्, निःश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूमागेन गच्छत आशातना न भवति तावता गन्तव्यम् ।१।२।३ । एवं पुरतः, पार्श्वतः, पृष्ठतश्च स्थानम् । ४ । ५।६। तथा पुरतः पार्श्वतः पृष्ठतो वा निषदनम् ।७।८।९। आचार्येण सहोच्चारभूमि गतस्याचार्यात् प्रथममेवाचमनम् । १० । गुरोरालापनीयस्य कस्यचिच्छिष्येण प्रथममालपनम् । ११ । शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमनागमनालोचनम् ।१२। भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत आलोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्छय शैक्षाणां यथारुचि प्रभूतभैक्ष्यदानम् । १५। भिक्षामानीय शैक्षं कञ्चन निमन्त्र्य पश्चाद गुरोरुपनिमन्त्रणम् । १६ । शिष्येण भिक्षामानीयाचार्याय यत् किश्चिद् दत्वा स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धरसस्पर्शवतां द्रव्याणां स्वयमुपभोगः । १७ । रात्रौ 'आर्याः ! कः स्वपिति जागर्ति वा ?' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणाप्रतिश्रवणम् । १८ । शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थिते शयितेन वा शिष्येण प्रतिवचनदानम् । १९ । आहूतेनासनं शयनं वा त्वक्त्वा संनिहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचन (१) एवं यथाजातैकं त्रिगुप्तिसहितं च भवन्ति चत्वारि। शषषु क्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ॥३०॥
118 CON