________________
योग
तृतीय प्रकाशः
शास्त्रम्
करोति कण्टको बदर्यादिसंबन्धी, दारुखण्डं च काष्ठशकलं, तथैव गलव्यथां वितनोति, व्यञ्जनानि शाकादीनि तेषां मध्ये निपतितो वृश्चिकस्तालु विध्यति । ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् दृश्यत एव तत्कथमयं भोज्ये निविशेत ? उच्यते-व्यञ्जनमिह वार्ताकुशाकरूपमभिपते तबृन्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्यालक्ष्यत्वाद्भोज्यता सम्भवतीति । विलग्नश्च गले वाल इत्यादि स्पष्टम् । एवमादयो रात्रिभोजने दृष्टा दोषाः सवर्षों मिथ्यादृशामपि । यदाहु:मेहं पिपीलिआओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरतं कोलियो कोढरोगं च ॥१॥
बालो सरस्स भङ्ग कण्टो लग्गई गलम्मि दारुं च । तालुम्मि विधइ अली वंजणमज्झम्मि भुजतो ॥ २ ॥ __ अपि च निशाभोजने क्रियामाणे अवश्य पाक: संभवी तत्र च पइजीवनिकायवधोऽवश्यंभावी, भाजनधावनादौ च जलगतजन्तुविनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति, तत्प्राणिरक्षणकाक्षया अपि निशाभोजनं न कर्त्तव्यम् । यदाहु:२जीवाण कुंथुमाइण घायणंभ ायणधोयणाईसु । एमाइरयणिभोयणदोसे को साहिउँ तरइ ? ॥१॥५०॥५१॥५२॥ (१) मेधां पिपीलिका घन्ति (हन्ति) वमनं च मक्षिका करोति । युका जलोदरत्वं कोलिकः कुष्ठरोगं च ॥ १॥
वालः स्वरस्य भङ्गं कण्टको लगति गले दारु च । तालुनि विध्यति अलिय॑जनमध्ये भुज्यमानः ॥२॥ (२) जीवानां कुन्थ्वादीनां घातनं भाजनधावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्रोति ? ॥१॥
॥३२॥