SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥३३१॥ EXOTOROXXBOKES सञ्चरद्भिः स्पर्शादिनोच्छिष्टमभोज्यं क्रियते यत्र दिनात्यये रात्रौ तत्र नाद्यान भुञ्जीत । यदाहु:मालिति महिअलं जामिणीसु रयणीअरा समंतेण । ते विट्टालेति ० फुडं रयणीए भुजमाणं तु ॥ १ ॥ ४८ ॥ तथा घोरान्धकाररुद्वाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ? ॥४९॥ प्रबलान्धकारनिरुद्धलोचनैः कृमिपिपीलिकामक्षिकादयः पतन्तो घृततैलतक्रादौ भोज्ये न दृश्यन्ते यत्र तत्र तस्यां निशि सचेतनः को भुञ्जीत १ ।। ४९ ॥ रात्रिभोजने दृष्टान् दोषान् श्लोकत्रयेणाह — मेधां पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगंच कोलिकः । ५०। कष्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ५१ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ५२ पिपीलिका कीटिका, अन्नादिमध्ये भुक्ता सती, मेधां बुद्धिविशेषं, हन्ति, पिपीलिकेति जातावेकवचनम् । तथा यूका जलोदरमुदररोगविशेषं कुर्यात्, तथैव मक्षिका वान्ति वमनं करोति, तथैव कोलिको मर्कटकः, कुष्टरोगं, ( १ ) मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । तेऽपि च्छलन्ति स्फुटं रजन्यां भुञ्जानं तु । १ । ते वि छलंति हु इति रत्नशेखरसूरिकृत श्रावकप्रतिक्रमणसूत्रटीकायाम् । ROOF: CH तृतीय प्रकाशः ॥३३१॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy