SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ १९५॥ EXOFOO पितृनिमित्तहिंसोपदेशकं शास्त्रमनूद्य तदुपदिष्टां हिंसां दूषयति इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा साऽपि दुर्गतिहेतवे ॥४७॥ इति पूर्वोक्ता या स्मृतिर्धर्मसंहिता तस्या अनुसारेणालम्बनेन पितरः पितुर्वश्याः । यच्छ्रुतिः-- "पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेदिति" । तेषां तर्पणाय तृप्तये मूढैरविचारकैर्या हिंसा विधीयते सापि न केवलं मांसलोभादिनिमित्ता दुर्गतिहेतवे नरकाय । न हि स्वल्पाऽपि कार्याद्धिंसा न नरकादिनिबन्धनं । यत्तु पितृप्रपञ्चवर्णनं तन्मुग्धबुद्धिप्रतारणमात्रं, न हि तिलव्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परासूनां पितॄणां तृप्तिरुत्पद्यते यदाह— मृतानामपि जन्तूनां यदि तृप्तिर्भवेदिह । निर्वाणस्य प्रदीपस्य स्नेहः संवर्द्धयेच्छिखाम् ||१|| इति न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानैर्जन्तुभिर्विरोधनिबन्धनत्वेन स्वस्यापि इहामुत्र च हिसाहेतुतया भयहेतुः || ४७|| अहिंस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि भयमस्तीत्याह-यो भूतेष्वभयं दद्याद्भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तादृगासाद्यते फलम् ४८ स्पष्टम् ॥४८॥ एवं तावद्धिंसापराणां मनुष्याणां नरकादि हिंसाफलमभिहितं । सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्धं पूज्यत्वं १ परिदेवते -- (१) शोचति । द्वितीय प्रकाश. ॥ १९५॥
SR No.009699
Book TitleYoga Shastram
Original Sutra AuthorN/A
AuthorSubodhsuri, Ruchaksuri
PublisherDharmbhaktipremsubodh Granthamala Prakashan Samiti
Publication Year1972
Total Pages843
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size199 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy