________________
योगशास्त्रम्
द्वितीय प्रकाशा
॥१९४॥
तिलैबींहियवैरिद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥४२॥ __ तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शनार्थम् । एतैर्विधिवदत्तैः पितरो मास प्रीयन्ते ॥४२॥ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरप्रेणाथ चतुरः शाकुनेनेह पञ्च तु॥४३ ___ मत्स्याः पाठीनकाद्याः, हरिणा मृगाः, औरभ्रा मेषाः, शकुनय आरण्यकुक्कटाद्याः ॥४३॥ | षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४४॥ | छागश्छगलः, पृषतैणरुरवो मृगजातिविशेषवचनाः ॥४४॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूयोर्मा सेन मासानेकादशैव तु ॥४५॥ ___ वराह आरण्यशूकरः ॥४५॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्य मांसेन तृप्तिादशवार्षिकी ॥४६॥
श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्रव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति मांसेन गव्येन पयसा पायसेन वा । पयसो विकारः पाय दध्यादि । पयःसंस्कृते त्वोदने प्रसिद्धिः । वाणसो जरच्छागः यस्य पिबतो जलं त्रीणि स्पृशन्ति जिहा कौँ च यदाहत्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् वाोणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ॥१॥४६॥
॥१९॥