________________
॥ श्री मानतुङ्गसूरिविरचितम् ।।
न्तर
शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयस्तैः शान्तरागरुचिभिः ("बहव्रीहिः')। उपशमरसनिष्पन्नैरित्यर्थः। अथवा हे 'शान्तराग !' हे वीतराग !। शान्तो रागो यस्मिन् स शान्तरागस्तस्य सम्बोधनं 'बहुव्रीहिः'। हे “रुचिभिः परम'! कान्तिभिरुत्तम !। अणुभिरिति कर्तृपदम्। अणुभिः परमाणुभिरित्यर्थः। कः कर्मतापन्नः? 'त्वं' भवान्। कथमेवं ज्ञायते ? यद्-यस्मात् ते समानमपरं रूपं नास्ति कर्बोक्तिः इत्यन्वयः। ‘अस्ति' इति क्रियापदम्। किं कर्तृ? 'रूपम्'। 'अस्ति' विद्यते। कथम्? 'न'। कीदृशं रूपम्? 'समानं' तुल्यम्। कस्य? 'ते' भवतः। कथम्? 'यद्' इति यस्मात् कारणात्। हीति निश्चयेन। कस्याम्? 'भुवि' पृथिव्याम्। रूपं कथंभूतम्? अपरम्' अन्यत्। इति द्वादशमवृत्तार्थः ।।१२।।
अनेन रुपस्यातिशायिता दर्शिता। साम्प्रतं भगवन्मुखं वर्णयतिवक्त्रमित्यादि
व्याख्या - द्वौ क्वशब्दावत्यन्तासङ्गतिवाचकौ भवतः। यतो हे सौम्यवदन ! ते-तव वक्त्रं-मुखं क्व वर्तते? तथा निशाकरस्य-चन्द्रस्य, निशां करोतीति निशाकरस्तस्य 'तत्पुरुषः', बिम्बं मण्डलं क्व वर्तते?। यत् त्वन्मुखस्येन्दोश्च साम्यमुच्यते तत्र महदन्तरं पश्यामि। कथंभूतं वक्त्रम्? 'सुरनरोरगनेत्रहारि' सुरा-वैमानिकाः नरा-मानवाः उरगा - भवनवासिनस्तेषां नेत्राणि-लोचनानि तानि (तेषां) हारि-रञ्जनशीलम्। उरसा गच्छन्तीत्युरगाः 'तत्पुरुषः'। सुराश्च नराश्चोरगाश्च सुरनरोरगाः 'द्वन्द्वः' सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि 'तत्पुरुषः', सुरनरोरगनेत्राणि हरतीत्येवंशीलं सुरनरोरगनेत्रहारि 'तत्पुरुषः'। पुनः किंलक्षणं वक्त्रम्? 'निःशेषनिर्जितजगत्रितयोपमानं' निःशेषेण-सामस्त्येन निर्जितानि-पराभूतानि जगत्रितयोपमानानि कमलदर्पणचन्द्रादीनि येन (तत्)।
का ७८ रु