________________
॥श्री भक्तामरस्तोत्रम् ॥
-
किंभूतं जलम्? 'क्षारं' दुष्टास्वादम्। कस्य? 'जलनिधेः' लवणसमुद्रस्य। जलं निधीयतेऽस्मिन्निति जलनिधिस्तस्य 'तत्पुरुषः'। किं कृत्वा? 'पीत्वा' आस्वाद्य। किं कर्मतापन्नम्? ‘पयः' जलम्। पयः कीदृशम्? 'शशिकरद्युति' चन्द्रकिरणरश्मि। शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः 'तत्पुरुषः' शशिकरवद् द्युतिर्यस्य तत् (तद्) 'बहुव्रीहिः', उज्ज्वलमित्यर्थः। कस्य? “दुग्धसिन्धोः' क्षीरसागरस्य। दुग्धस्य सिन्धुः दुग्धसिन्धुः तस्य ‘तत्पुरुषः'। न कश्चिदिच्छेदित्यर्थः। इति एकादशमवृत्तार्थः ।।११।।
भगवतो रूपातिशयतां दर्शयन्नाह - यैरित्यादि
व्याख्या - अहमेवं मन्ये-भवद्देहनिष्पत्तये येऽणवः प्रवृत्तास्ते तावन्त एव, यदाह-हे “त्रिभुवनैकललामभूत !' जगत्रितयाद्वितीयतिलकोपम !! नकारान्तो ललामशब्दो नपुंसकलिङ्गोऽस्ति। भूतशब्द इवार्थे। त्रयाणां भुवनानां समाहारस्त्रिभुवनं द्विगुः' एकं च तल्ललाम चैकललाम ‘कर्मधारयः', त्रिभुवने एकललाम त्रिभुवनैकललाम 'तत्पुरुषः', त्रिभुवनैकललामेव त्रिभुवनैकललामभूतस्तस्य सम्बोधनम् ('तत्पुरुषः')। तेऽपि अणवस्तावन्त एव वर्तन्ते कर्बोक्तिः इत्यन्वयः। 'वर्तन्ते' इति क्रियापदम् (अध्याहार्यम्)। के कर्तारः? 'अणवः'। किंविशिष्टा अणवः? “तावन्तः (एव)' तत्प्रंमाणा एव। नान्ये सन्तीत्यर्थः। कथम्? 'खलु' निश्चये। अणवः किंभूताः? 'ते'। ते के ? यैः परमाणुभिस्त्वं निर्मापितः कर्मोक्तिः इत्यन्वयः। 'निर्मापितः' इति क्रियापदम्। कैः कर्तृभिः? ‘परमाणुभिः'। परमाश्च ते अणवश्च परमाणवस्तैः ‘कर्मधारयः'। 'निर्मापितः' निष्पादितः। परमाणुभिः किंभूतैः? “यैः'। पुनः किंविशिष्टैः परमाणुभिः? शान्तरागरुचिभिः'। शान्तश्चासौ रागश्च शान्तरागः ‘कर्मधारयः',
ना ७७ ला
-