________________
१६
द्वयोर्विरोधिपरंपरयोः पुरस्तात् सतर्कबलमुपन्यस्तोऽपि स्वपक्षः शास्त्रवाक्यैरेव सकौशलं प्रमाणीकृतः । एषैव प्रतिपाद्यगता प्रतिपादनशैलीगता चापूर्वता प्रस्तुते काण्डे प्रतीयते । सिद्धसेनोपज्ञत्वेन प्रसिद्धस्योपयोगाभेदपक्षस्य सूक्ष्माणि विचारबीजानि जैनपरंपरायां प्रागभूवन् न वेत्यस्य सांप्रतं वक्तुमशक्यत्वेपि सूक्ष्मेक्षिकया तुलनात्मकविचारणाबलादेतावत्त्विदानीं वक्तुं पार्यते यत् न्याय-वैशेषिकप्रभृतिसर्वज्ञवादिजैनेतरदर्शनसंमतसर्वज्ञत्वविषयकविचारगोचरगम्भीराभ्यासप्रयुक्तमेवोपयोगा भेदपक्षोपस्थापनं तत्समर्थनं चेति ।
प्रस्तुतकाण्डस्य मुख्यतयाऽपूर्वतया च प्रतिपाद्य उपयोगाभेदपक्षो दिवाकरोपज्ञानामनेकेषां विशेषाणामन्यतमो विशेषोऽवगन्तव्यः । एनं विशेषं परिज्ञातुम् तुलनयाऽभ्यसितुम् तदीयपक्षप्रतिपक्षयोर्युक्तीरवगन्तुं च गा० ४ पृ० ५९७ - ६०४ एकं टिप्पणं निवेशितम् । तत्राऽऽर्यावर्तीयसमग्रमुख्य मुख्यदर्शनगतैः सर्वज्ञत्वसंबन्धिभिः पक्षप्रतिपक्षैः सह तदीया जैनदर्शनगताः सर्वा अपि विचारपरंपराः सशास्त्राधारं विविच्य संनिवेशिताः सन्ति । श्रीमद्दिवाकरप्रबल विरोधिश्रीजिनभद्रगणिक्षमाश्रमणकर्तृके विशेषणवतीनामकेऽमुद्रिते ग्रन्थे प्रस्तुतविषयायाश्चचया विस्तृततयोपलभ्यत्वेन तद्गतं सर्वमप्युपयुक्तं भागं टिप्पणके समादाय तत्र चामुद्रिते नन्दिचूर्णि - नन्दिलघुटीके उपयुज्य प्रस्तुतविषय संबन्धिनी सर्वाऽपि मुद्रिताऽमुद्रितवाङ्मयसामग्री समगृह्यत सा चाभ्यासिनां मनांस्यनुकूलयिष्यतीति संभाव्यते ।
संपादनगोचरे च विषये आदर्शगतत्वेन, पाठान्तरगतत्वेन, संशोधनोपयुक्तग्रन्थोपयोगपद्धतिगतत्वेन, क्वाप्यप्रसिद्ध लिखितग्रन्थोपयोगगतत्वेन, प्रसिद्धात्युपयोगिग्रन्थोपयोगाविधानकारणगतत्वेन च पञ्चैव वस्तूनि वक्तव्यानि सन्ति ।
१ तृतीयभागवत् प्रस्तुतभागस्याऽपि संशोधने पत्रप्रतिभिः सार्धं ताडपत्रप्रती अप्युपायोजिषाताम् विशेषश्चैतावानेव यत् तृतीये भागे द्वे अपि ते प्रती अपूर्णे आस्ताम् अत्र तु बृहत्ताडपत्रप्रतिरेका पूर्णेवाऽऽसीत् ।
२ पत्र - ताडपत्रादर्शगतः प्रस्तुतकाण्डसंबन्धी सर्वोऽपि पाठः शुद्धप्राय एव विद्यते तत्राऽपि भ० मां० बा० बा० ता० संज्ञका आदर्श उत्तरोत्तराधिकशुद्धिभाजः सन्ति । केवलताडपत्रादर्शद्वयगतेभ्यो लघुलघुतर टिप्पण केभ्योऽपि पाठशुद्धेरिव प्रस्तुते संशोधनकर्मणि महानुपकारः संवृत्तः ।
यद्यपि पाठान्तराणां संग्रह- पृथक्करणव्यवस्थापनक्रमः प्राक्तनभागतुल्यतयैव प्रस्तुतभागेऽवलम्बितस्तथाप्यादर्शानां शुद्धतयेतरसाधनानां च सुलभतया संगृहीतानामपि पाठान्तराणां यथासंभवमल्पीकृतत्वात् प्रस्तुते भागे तेषां भूयस्त्वं नावशिष्यते ।
३ प्रस्तुतसंशोधनोपयुक्ता ग्रन्था मुद्रित - लिखिततया द्वेधा विभज्यन्ते । ग्रन्थं शोधयितुम् विषयं विशदीकर्तुम् तुलनां विधातुम् विशालमभ्यसितुं च यत्र यत्र मुद्रिता ग्रन्था उपयोजितास्तत्र पूर्वं बहुषु स्थलेषु तत्तद्द्व्रन्थगता उपयोगिनः पाठा निःसंकोचमधस्तादुपन्यस्ताः । पुरस्ताच्चानेकेषु स्थलेषु लाघवादिभिर्बहुभिर्हेतुभिः केवलं तदीयानि तदीयानि स्थलान्येव प्राधान्येन सूचितानि परंतु यत्र लिखिता ग्रन्था उपायोजयिषत तत्र सर्वत्राभ्यासिनां सौलभ्याय तत्तदज्ञातदुर्लभग्रन्थगतान् पाठान् यथाशक्यं यथामर्यादं चाधस्तादुपन्यसितुमाग्रहो व्यधायि ।
४ इदानीं यावत् काव्यप्रकाशिता अज्ञातप्राया दुर्लभप्रायाश्च प्राक्तनभागसंशोधनेऽल्पोपयोजितप्रायाः सप्त लिखितग्रन्था यथामर्यादं प्रस्तुते संशोधने दिब्मात्रतयोपयोजिताः सन्ति । ते चेमे १ हेतुबिन्दुटीका २ तत्त्वोपप्लवः ३ न्यायकुमुदचन्द्रोदयः ४ सिद्धिविनिश्वयटीका ५ विशेषणवती ६ नन्दिचूर्णी ७ लध्वी नन्दिवृत्तिश्च ।