________________
संपादकीयं निवेदनम्
पूर्वभागसहभावित्वेनैव संपादनकार्यस्य समारब्धतया साधनसाद्गुण्य-सहकारिसाहायकयोरविच्छिन्नोपनततया च प्रस्तुतभागस्य प्रकाशनं तृतीयभागानन्तरं किञ्चिदूनेनैकेनैव वर्षेण संपन्नमित्यवगन्तव्यम् ।
१ ग्रन्थगोचरः २ संपादनगोचरश्चेति द्वावेव प्रस्तुतभागसंबन्धिनौ विषयौ प्रधानतयाऽत्र प्रतिपिपादयिषितौ स्तः ।
प्रन्थगोचरे विषये १ मूल-टीकयोः परिमाणम् २ प्रतिपाद्यं तत्त्वम् ३ तदीयं वापूर्वत्वम् इति त्रीण्येव वस्तूनि वक्तव्यानि सन्ति ।
१ प्रस्तुते भागे सम्मतितर्कस्य त्रिचत्वारिंशद्गाथात्मकं द्वितीयं काण्डम् तदीया च टीका संपूर्णतया परिसमाप्यते । तत्र चास्य भागस्य पादोनमितप्रायोंऽशः प्रथमगाथाटीकया शेषश्चाऽवशिष्टसमस्तगाथाटीकया व्याप्तो वर्तते ।
२ आगमगतां ज्ञानस्य तदीयभेदानां च प्राचीनां विचारशैलीमनुसरन्ती ज्ञानचर्चा विदधतः प्रस्तुतान्मूलकाण्डात् तट्टीकाया एतावान् विशेषः-आगमगतायां प्राचीनायां शैल्यामलब्धावकाशा तर्कविकाससमये च प्राप्तोद्भवप्रसरा प्रमाणचर्चा टीकाकारेण प्रथमगाथाटीकायां सविस्तरं संगृहीता वर्तते । तत्र च तत्कालोपलब्धानि बौद्धवैदिकदर्शनानां मन्तव्यानि पूर्वपक्षतया सन्निवेश्य सर्वदर्शनसंग्रहीयमार्गेण परस्परं निरस्य पर्यवसाने जैनदर्शनमन्तव्यान्युत्तरपक्षतयोपन्यस्य प्रतिष्ठापितानि सन्ति । सा पुनः प्रमाणचर्चा टीकाकारकृतस्य बौद्धवैदिकदर्शनसंबन्धिप्रमाणविषयकमहामन्थराशिगोचराभ्यासस्य साक्षित्वं परिपूरयति । टीकाकारेण द्वितीयाप्रभृतिचरमापर्यवसानसमस्तगाथाटीकायां गाथागतस्यैवाऽर्थस्य स्फुटीकृततया तत्र च केवलमागमशैलीकृताया ज्ञानमीमांसाया लब्धावकाशत्वेन न तत्र दर्शनान्तरीया ग्रन्था न वा तदीया विषयाः स्थानमलभन्त ।
३ आगमेषूपयोगं ज्ञानदर्शनरूपतया द्वेधा विभज्य तयोर्द्वयोरनुक्रमेण पञ्च चत्वारश्च प्रकारा वर्णिताः सन्ति । इयमेव ज्ञाननिरूपणपरा प्राचीनाऽऽगमिकशैली निगद्यते; यद्यप्येनामेव शैलीमवलम्बमाना प्रस्तुतकाण्डगता ज्ञानचर्चा समस्ति तथापि तस्यामुपलभ्यमानमेकं तत्त्वमितरस्मिन् समग्रेऽपि जैनवाङ्मयेऽदृष्टचरतया सर्वथैवाऽपूर्व प्रतिभाति । तद्यथा-प्राचीनाऽऽगमपरंपरा ज्ञानपञ्चक-दर्शनचतुष्कयोस्तदीयावरणभूतकर्मप्रकारनवकस्य च व्यावर्णिततया केवलज्ञान-केवलदर्शनरूपमुपयोगद्वयं विभिन्नत्वेन भिन्नभिन्नसमयवर्तित्वेन चाऽभ्युपगच्छति । यदाकदाचिच्च पश्चादुत्पन्ना द्वितीया विचारपरंपरा तस्योपयोगद्वयस्य विभिन्नत्वं मन्यमानाऽपि भिन्नभिन्नसमयवर्तित्वमनङ्गीकृत्यैकसमयवर्तित्वमेवाऽभ्युपगच्छति । तत्र च केवलोपयोगे भिन्नभिन्नसमयवर्तित्ववद् वैयक्तिकभेदस्याऽप्यसंभवात् केवल एक एवोपयोगो द्वाभ्यां सार्थकाभ्यां नामभ्या द्वेधा व्यपदिश्यत इत्येष तृतीयः पक्षः श्रीसिद्धसेनदिवाकरेण पूर्वोक्तयोर्द्वयोः परंपरयोः समक्षमुपस्थाप्य समर्थितः । अयं च पक्षो दिवाकरोपज्ञतया नव्यमतत्वेन ख्यातिं गतः । एष च नव्यपक्षप्रासादस्तर्कभूमिकामवष्टभ्य विनिर्मितो वर्तते । आगमेभ्यः स्पष्टतया प्रतीयमानायाः केवलोपयोगद्वयक्रमपक्षपरंपरायाः पश्चाद् विचारबलप्रादुर्भावितायाः केवलोपयोगयोगपद्यपक्षपरंपरायाश्च विरोधमुन्मूलयितुं स्वपक्षं सप्रमाणं स्थापयितुं च श्रीमता दिवाकरेण प्रस्तुते काण्डेऽद्भुता चातुरी प्रतिभा चोपायोजिषाताम्, सार्वदिकाऽनुभववत् तदाऽपि शास्त्राधारमन्तरेण कस्यापि वस्तुनो लोकेन स्वीकारयितुमशक्यत्वमवगम्य श्रीमता दिवाकरेण