SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञवादः। ६१ नित्यत्वं वा संभाव्येत, तद्विपक्षस्य वा स्वरूपतोऽज्ञानं अनभ्यासश्च स्यात् तदैतन्न स्यादपि; यावता रागादीनां ज्ञानावरणहेतुत्वेनावरणस्वरूपत्वं सिद्धम् । न च तेषां नित्यत्वम्, तत्सद्भावे सर्वशज्ञानस्य प्रतिपादयिष्यमाणप्रमाणनिश्चितस्याभावप्रसङ्गात् । नाप्याकस्मिकत्वम्, अत एव । न चैषामत्पादको हेत वगतः, मिथ्याज्ञानस्य तज्जनकत्वेन सिद्धत्वात् । न च तस्यापि नित्यत्वम्, अन्यथाऽविकलकारणस्य मिथ्याज्ञानस्य भावे प्रबन्धप्रवृत्तरागादिदोषसद्भावात् तदावृतत्वेन सर्वविद्विज्ञानस्याभावः ५ स्यादिति स एव दोषः । आकस्मिकत्वेऽपि मिथ्याज्ञानस्य हेतुव्यतिरेकेणापि प्रवृत्तेस्तत्कार्यभूतरागादीनामपि प्रवृत्तिरिति पुनरपि सर्वज्ञज्ञानाभावः; अहेतुकस्य च मिथ्याज्ञानस्य देश-काल-परषप्रतिनियमाभावोऽपि स्यादिति न चेतनाऽचेतनविभागः । न च तत्प्रतिपक्षभूतस्योपायस्यापरिज्ञानम्, मिथ्यात्वविपक्षत्वेन सम्यग्ज्ञानस्य निश्चितत्वात् । तदुत्कर्षे मिथ्याज्ञानस्यात्यन्तिकः क्षयः। तथाहि-यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य विपक्षप्रकर्षावस्थागमने भवत्यात्य-१० न्तिकः क्षयः, यथोष्णस्पर्शस्य तथाभूतस्य प्रकर्षगमने शीतस्पर्शस्य तथाविधस्यैव, सम्यग्ज्ञानोपचयतारतम्यानुविधायी च मिथ्याज्ञानापचयतरतमादिभाव इति तदुत्कर्षेऽस्याऽऽत्यन्तिकक्षयसद्भावात् तत्कार्यभूतरागाद्यनुत्पत्तेरावरणाभावः सिद्धः । रागादिविपक्षभूतवैराग्याभ्यासाद् वा रागादीनां निर्मूलतः क्षय इति कथं नावरणाभावः? __ न च लङ्घनो-दकतापादिवदभ्यस्यमानस्यापि सम्यग्ज्ञान-वैराग्यादेन परप्रकर्षप्राप्तिरिति १५ कुतस्तद्विषये मिथ्याज्ञानाभावाद् रागादेरात्यन्तिकोऽनुत्पत्तिलक्षणः क्षयलक्षणो वाऽभाव इति वक्तं युक्तम्, यतो लकनं हि पूर्वप्रयतसाध्यं यदि व्यवस्थितमेव स्यात् तदोत्तरप्रयत्नस्थापरापरलङ्गनातिशयोत्पत्ती व्यापारात् भवेल्लङ्घनस्याप्यनपेक्षितपूर्वातिशयसद्भावप्रयत्नान्तरस्य प्रकर्षावाप्तिः न चैवम्, अपरापरप्रयत्नस्य पूर्वपूर्वातिशयोत्पादने एवोपक्षीणशक्तित्वात । अर्थतत स्यात-यदि तत्रापि पूर्वप्रयत्नोत्पादितोऽतिशयो न व्यवस्थितः स्यात्, तत्किमिति प्रथममेवर यावल्लङ्घयितव्यं तावन्न लङ्घयति ? तल्लङ्घनाभ्यासापेक्षणात् पूर्वप्रयत्नाहितातिशयसद्भावेऽपि न लखनप्रकर्षप्राप्तिरिति यथा तस्य व्यवस्थितोत्कर्षता तथा ज्ञानस्यापि भविष्यति, न, यतः श्लेष्मादिना प्राक् शरीरस्य जाड्याद् यावल्लङ्घयितव्यं न तावद् व्यायामानपनीतश्लेष्माऽनासा. दितपटुभावः कायो लङ्घन्यति; अभ्यासासादितश्लेष्मक्षय-पटुभावस्तु यावल्लङ्घयितव्यं तावलकयतीत्यभ्यासस्तत्र सप्रयोजनः । ज्ञानस्य तु योऽभ्याससमासादितोऽतिशयः सोऽतिशयान्तरोत्पनी२५ पुनः प्राक्तनाभ्यासापेक्षो न भवतीत्युत्तरोत्तराभ्यासानामपरापरातिशयोत्पादने व्यापाराद न व्यव. स्थितोत्कर्षतेति भवति ज्ञानस्य परप्रकर्षकाष्ठा । उदकतापे त्वतिशयेन क्रियमाणे तदाश्रयस्यैव क्षयाद नातिताप्यमानमप्युदकमग्निरूपतामासादयति; विज्ञानस्य स्वाश्रयोऽत्यभ्यस्यमानेऽपि तस्मिन न क्षयमुपयातीति कथं तस्य व्यवस्थितोत्कर्षता ? न च विज्ञानमपि प्राक्तनाभ्यासादासादितातिशयं पूर्वमेव विनष्टम् अपराभ्यासादन्यदतिशयवदुत्पन्नमिति कथं पूर्वाभ्याससमासादितोऽतिशयो ३० नाभ्यासान्तरापेक्षो येन व्यवस्थितोत्कर्षता तस्यापि न स्यादिति वक्तुं युक्तम्, तत्र पूर्वाभ्यासजनितसंस्कारस्योत्तरत्रानुवृत्तेः; अन्यथा शास्त्रपरावर्तनादिवैयर्थ्यप्रसङ्गात् । नापि 'यदुपचयतारतम्या. नुविधायी यदपचयतरतमभावस्तस्य तद्विपक्षप्रकर्षगमनादात्यन्तिकः क्षयः' इत्यत्र प्रयोगे श्लेष्मणा व्यभिचार उद्भावयितुं शक्यः किल-निम्बाद्यौषधोपयोगात् प्रकर्षतारतम्यानुभववतस्तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षय इति-यतस्तत्र निम्बाद्यौषधोपयोगस्यैव नोत्कर्ष-३५ निष्ठा आपादयितुं शक्या, तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवाऽऽसेवनात्, अन्यथौषधोप. योगाधारस्यैव विनाशः स्यात् । चिकित्साशास्त्रस्य च धातुदोषसाम्यापादनाभिप्रायेणैव प्रवृत्तेस्तप्रतिपादितौषधोपयोगस्योद्रिक्तधातुदोषसाम्यविधाने एव व्यापारो न पुनस्तस्य निर्मूलने; अन्यथा दोषान्तरस्यात्यन्तक्षये मरणावाप्तेरिति न श्लेष्मणा तथाभूतेनानैकान्तिको हेतुः। न च सम्यगज्ञानसात्मीभावेऽपि पुनर्मिथ्याज्ञानस्यापि संभवो भविष्यति तदुत्कर्ष इव सम्यग्ज्ञानस्येति वक्तुं युक्तमा यतो मिथ्याज्ञाने रागादौ वा दोषदर्शनात् , तद्विपक्षे च सम्यग्ज्ञान-वैराग्यलक्षणे गुणदर्शनात् तत्र १ तदेतन वा०, पू०, बा०। २-त्पादहेतु-मां० । ३-लक्षय वि०। ४-तव्यं तन्न लायति वा०, बा०, पू०। ५-षधोपचारयो-भा०, गु०, ६-का क्षयः भा० । ७-न्यदा कां० मा०। ८-नस्यात्मी-मां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy