SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६० प्रथमे काण्डे - दिजनितं यद्यतीन्द्रियविषयम्' इत्याद्यवदि, तदपि प्रतिक्षिप्तम् अतीन्द्रियार्थग्राहकत्वस्यान्येन्द्रियविषयग्राहकत्वस्य च प्राक् प्रतिपादनात् व्यवहारोच्छेदाभावस्य च दर्शितत्वात् । अतीन्द्रियेऽपि च कालादौ विशेषणभूते चक्षुरादेः प्रवृत्तिप्रतिपार्देनाच्च इतरेतराश्रयत्वदोषस्याप्यनवकाशः पूर्वपक्षप्रतिपादितस्य । शब्दज्ञानजनितज्ञानपक्षे तु इतरेतराश्रयदोषप्रसङ्गार्पादनमप्ययुक्तम्, कारणपक्षे तद५ संभवात् अन्य सर्वज्ञप्रणीतागमप्रभवत्वेन ज्ञानस्य कथमितरेतराश्रयत्वम् ? तदागमप्रणेतुरप्यन्यसर्वशप्रणीतागमपूर्वकत्वेऽनवस्था स्यात् सा चेष्यत एव अनादित्वादागम- सर्वज्ञपरम्परायाः । यदप्यवादि 'शब्दजनितं ज्ञानमस्पष्टाभम्, तज्ज्ञानवतः कथं सकलशत्वम्' इति, तदप्यसङ्गतम् ; नहि शब्दजनितेन ज्ञानेनाभ्यासानासादितवैशद्येन सकलज्ञोऽभ्युपगम्यते येनायं दोषः स्यात् - किन्त्वभ्यासासादितसकलविशेषसाक्षात्कारित्वलक्षणनैर्मल्यवता । अत एव 'प्रेरणाजनितं ज्ञानमस्मदादीनाम१० व्यतीतानागत- सूक्ष्मादिपदार्थविषयमस्तीति सर्वज्ञत्वं स्यात्' इति यदुक्तम्, तदपि निरस्तम् ; अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् । 'लिङ्गजनितत्वेऽपि तज्ज्ञानस्यातीन्द्रि यधर्मादिपदार्थसंबन्धानवगमाद् लिङ्गस्यानवगतसाध्यसंबन्धस्य च तस्य धर्मादिसाध्यानुमापकत्वासंभवात्' इत्यादि' यत्, तदप्यसङ्गतम् अवगतधर्माद्यतीन्द्रियसाध्यसंबन्धस्य हेतोः प्रसिद्धत्वात् । तथाहि - स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकत्वं विशिष्टद्रव्यसंबन्धपूर्वकं पीतहृत्पूरपुरुषज्ञानस्येवः १५ 'सर्वमनेकान्तात्मकम्' इति सकलसामान्य विषयस्य च ज्ञानस्य तद्गताशेषविशेषाग्राहकत्वं सुप्रसिद्धमिति भवति पौगलिकाऽतीन्द्रियधर्मादिसिद्धिरतो हेतोः । यदप्युक्तम् 'अनुमानज्ञानेन सकलज्ञत्वाभ्युपगमेऽस्मदादीनामपि तत् स्यात्, भावनाबलात् तद्वैशद्ये तु कामादिविप्लुतविशदज्ञानवत इवासर्वज्ञत्वम् तज्ज्ञानस्य तद्वद् उपप्लुतत्व प्राप्तेः' इति, तदप्यचारु; यतो भावनाबलाज्ज्ञानं वैशद्यमनुभवतीत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वाद् न सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनं युक्तम् तथाऽभ्युपगमे सकला२० नुमानोच्छेदप्रसक्तेः । न चानुमानगृहीतस्यार्थस्य भावनाबलाद् वैशद्यं तत्प्रतिभासिन्यभ्यासजे ज्ञानेऽनुभवतो वैपरीत्यसंभवो येन तदवभासिनो ज्ञानस्य कामायुपप्लुतज्ञानस्येवोपप्लुतत्वं स्यात् । यद्भ्यभ्यधायि 'रजो-नीहाराद्यावरणापाये वृक्षादिदर्शनवद् रागाद्यावरणाभावे सर्वज्ञज्ञानं वैशद्यभाग भविष्यति' 'न च रागादीनामावारकत्वं सिद्धम्' इत्यादि, तदप्यसङ्गतम् ; कुड्यादीनामप्यन्वय-व्यतिरेकाभ्यामावारकत्वासिद्धेः । तथाहि - सत्य स्वप्नप्रतिभासस्यार्थग्रहणे न कुड्यादीनामावारकत्वम्, निश्छिद्रापवरकम२५ ध्यस्थितेनापि भाव्य तीन्द्रियाद्यर्थस्यान्तरावरणाभावे प्रमाणान्तरसंवादिन उपलम्भात्; कुड्यादीनां 'त्वावरणत्वे तद्दर्शनमसंभव्येव स्यात्, तथाप्रतिभासेना प्रार्थेऽपि कुड्यादीनां नावारकत्वम् । यच्च प्रातिभं ज्ञानं जाग्रदवस्थायां शब्द- लिङ्गाऽक्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकार मुत्पद्यमानमुपलभ्यते तत्र कुड्यादीनां कथमावारकत्वम् ? कथं वा विज्ञानस्य नातीन्द्रियविशेषणभूतश्वस्तनकालाद्यवभासकत्वम् अनिन्द्रियजस्य च ज्ञानस्य बाह्य-सूक्ष्मादिपदार्थ साक्षात्कारित्वं न सिद्धम् ३० येन 'सर्वज्ञज्ञानस्यानक्षजत्वे बाह्याऽतीन्द्रियादिसकलपदार्थसाक्षात्करणं स्पष्टत्वं च न स्यात्' इत्यादि प्रेर्येत ? । अत एव सकलपदार्थग्रहणस्वभावस्य ज्ञानस्य इन्द्रियादिजन्यत्वकृत एव प्रतिनियतरूपादिग्राहकत्वनियमो ऽवसीयते, प्रातिभादौ तदजन्ये तस्याभावात् । सकलज्ञज्ञानं चातीन्द्रियमिति कथं "येऽपि सातिशया दृष्टाः" इत्यादि तथा "यत्राप्यतिशयो दृष्टः" [ श्लो० वा० सू० २, श्लो० ११४] ईत्यादि च दूषणं तत्र क्रमते ? न हि ज्ञानस्याशेषज्ञेयज्ञानस्वभावस्य कश्चित् प्रतिनियतो रूपादिकः स्वार्थः ३५ संभवति इत्यसकृदावेदितम् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः, कथं वाऽभ्यस्यमानमप्यविशदं ज्ञानं लङ्घनोदकतापादिवत् प्रकृष्टप्रकर्षावस्थाम् वैशद्यं चाऽवाप्नोतीति ? नैतत् प्रेर्यम्; यतो यदि रागादीनामावारकत्वादिस्वरूपं न ज्ञायेत, नित्यत्वमाकस्मिकत्वं वा तेषां स्यात्, तद्धेतूनां वा स्वरूपापरिज्ञानं १ पृ० ५१ पं० ११ । २०५६ पं० ३५ पृ० ५७ पं० ४ । ३ पृ० ५१ पं० १५ । ४ पृ० ५६ पं० २४ । ५ पृ० ५१ पं० १९ । ६ पृ० ५१ पं० २१ । ७ पृ० ५१ पं० २५ । ८ पृ० ५१ पं० २५९ पृ० ५१ पं० २७ । १० - कत्वं च भां०, वा०, गु० । ११ - प्रतीत कां० । १२ पृ० ५१पं० ३०-३५ । १३० ५१ पं० ३६ । १४- न्द्रियार्थस्या- गु० १५ - भासे नादृष्टार्थेऽपि कुड्यादीनामावारकत्वम् मां० । १६ विशेषभूत - वा० विना । १७ पृ० ४९ पं० १० । १८ पृ० ४९ पं० १२ । १९ हि शब्दशा - भा०, वि० । २०- मावरणत्वे मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy