SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३० प्रथमे काण्डे प्रमाणग्राह्यत्वाभ्युपगमेऽपि वक्तव्यम्-किमभावप्रमाणं ज्ञानविनिर्मुक्तात्मलक्षणम् , उत अन्यज्ञानस्वरूपम् ? प्रथमपक्षेऽपि किं सर्वथा ज्ञानविनिमुक्तात्मस्वरूपम् , आहोस्विद् निषेध्यविषयप्रमाणपञ्चकविनिर्मुक्तात्मलक्षणम् इति? प्रथमपक्षे नाऽभावपरिच्छेदकत्वम्, परिच्छेदस्य ज्ञानधर्मत्वात्। सर्वथा ज्ञानविनिर्मुक्तात्मनि च तदभावात् । निषेध्य विषयप्रमाणपञ्चकविनिर्मुक्तात्मनोऽपि नाभाव५व्यवस्थापकत्वम्, आगमान्तरेऽपि तस्य सद्भावेन व्यभिचारात् । तदन्यज्ञानमपि यदि तदन्यसत्ताविषयं स्यान्नाभावप्रमाणं स्यात्, तस्य सद्विषयत्वविरोधात् । 'पौरुषेयत्वादन्यस्तभावस्तद्विपयशानं तदन्यज्ञानम्' अभावप्रमाणमिति चेत्, अत्रापि वक्तव्यम्-किमस्योत्थापकम् ? प्रमाणपञ्चका. भावश्चेत्, नन्वत्रापि वक्तव्यम-किमात्मसंवन्धी, सर्वसंबन्धी वा प्रमाणपञ्चकाभावस्तदुत्थापकः? न सर्वसंबन्धी, तस्यासिद्धत्वात् । नामसंवन्धी, तस्यागमान्तरेऽपि सद्भावेन व्यभिचारित्वात् । १० आगमान्तरे परेण पुरुषसद्भावाभ्युपगमात् प्रमाणपञ्चकाभावो नाभावप्रमाणसमुत्थापक इति चेत्, न; पराभ्युपगमस्य भवतोऽप्रमाणत्वात् । प्रमाणत्वे वा वेदेऽपि नाभावप्रमाणप्रवृत्तिः, परेण तत्रापि कर्तृपुरुषसद्भावाभ्युपगमात् : प्रवृत्ती वाऽऽगमान्तरेऽपि स्यात्, अविशेषात् । न च वेदे पुरुषाभ्युपगमः परस्य मिथ्या, अन्यत्रापि तन्मिथ्यात्वप्रसक्तेः। किंच, प्रमाणपञ्चकाभावः किं ज्ञातोऽभाव. प्रमाणजनकः, उताशातः? यदि ज्ञातस्तदा न तस्यापरप्रमाणपञ्चकाभावादू झप्तिः, अनवस्था१५प्रसङ्गात् । नापि प्रमेयाभावात् , इतरेतराश्रयदोपात् । अथाज्ञातस्तजनकः, न; समयानभिज्ञस्यापि तजनकत्वप्रसङ्गात् न चाज्ञातः प्रमाणपञ्चकाभावोऽभावानजनकः, 'कृतयत्नस्यैव प्रमाणपञ्चका भावोऽभावज्ञापकः' इत्यभिधानात् । न च इन्द्रियादेरिव अज्ञातस्यापि प्रमाणपञ्चकाभावस्याभावज्ञानजनकत्वम्, अभावस्य सर्वशक्तिरहितस्य जनकत्वविरोधात्; अविरोधे वा भावेऽपि 'अभावः' इति नाम कृतं स्यात् । न तुच्छात् तदभावात् तद्भावज्ञानम्, किन्तु प्रमाणपञ्चकरहितादात्मन इति २०चेत्, न; आगमान्तरेऽपि तथाभूतस्यात्मनः सम्भवादू अभावशानोत्पत्तिः स्यात् । प्रमेयाभा. वोऽपि तद्धेतुस्तदभावान्नागमान्तरेऽभावज्ञानमिति चेत्, न; अभावामावः प्रमेयसद्भावः, तस्य प्रत्यक्षाद्यन्यतमप्रमाणेनानिश्चये कथमभावाभावप्रतिपत्तिः ? अभावज्ञानाभावात् तत्प्रतिपत्तिर्न सदुपलम्भकप्रमाणसद्भावादिति चेत्, न; अभावज्ञानस्य प्रमेयाभावकार्यत्वात् तदभावान्नाभावाभावावगतिः, कार्याभावस्य कारणाभावव्यभिचारात्, अप्रतिवद्धसामर्थ्यस्याभावप्रतीतावपि नेष्ट. २५ सिद्धिः। क्वचित् प्रदेशे घटाभावप्रतिपत्तिस्तु न घटज्ञानाभावात् किन्त्वेकज्ञानसंसर्गिपदार्थान्त रोपलम्भात् । न च पुरुषाभावाभावप्रतिपत्तावयं न्यायः, तदेकज्ञानसंसर्गिणः कस्यचिदयभावात् । न पुरुष एवं तदेकज्ञानसंसंगी, पुरुषभावाऽभावयोर्विरोधेनैकज्ञानसंसर्गित्वासम्भवात्; सम्भवेऽपि न पुरुषोपलम्भभावात् तदभावाभावप्रतिपत्तिः, तदुपलम्भस्यैव तत्प्रतिपत्तिरूपत्वात् । अत एव विरुद्ध विधिरप्पत्र न प्रवर्तत इति । किंच, कस्याभावज्ञानाभावात् ३०प्रमेयाभावाभावः -वादिनः, प्रतिवादिनः, सर्वस्य वा? यदि वादिनोऽभावज्ञानाभावान्नागमा न्तरे प्रमेयाभावः, वेदेऽपि मा भूत् , तत्रापि प्रतिवादिनोऽभावज्ञानाभावस्याविशेषात् । अथागमा. न्तरे वादि-प्रतिवादिनोरुभयोरप्यभावज्ञानाभावान्न प्रमेयाभावः, वेदे तु प्रतिवादिनोऽभावशानाभावेऽपि वादिनोऽभावज्ञानसद्भावात्, न; वादिनो यदभावज्ञानं तत् साङ्केतिकम्, नाभावबलो. त्पन्नम् आगमान्तरे प्रतिवादिनः अप्रामाण्याभावज्ञानवत्। न च साङ्केतिकाभावज्ञानादभा३५वसिद्धिः, अन्यथाऽऽगमान्तरेऽपि ततोऽप्रामाण्याभावसिद्धिप्रसङ्गः, तन्नागमान्तरे वादिनोऽभाव शानाभावादू गति': । नापि प्रतिवादिनोऽभावज्ञानाभावात् तत्र तद्गतिः, वेदेऽपि तत्प्रसङ्गात् । १जैन-बौद्ध-स्मृत्यादिशास्त्रान्तरे। २ सद्विषयत्वस्य विरोधात् गु.। ३-ज्ञाने जनकः कां०, गु० । ४ पृ. २३ पं० २५। ५ प्रमाणपञ्चकाभावात् पौरुषेयत्वाभावज्ञानम् । ६ प्रमेयाभावान्नाभावाभावगतिः सा०, गं० । प्रमेयाभावकार्यत्वात् तदभावाभावगतिः हा०। ७-नाभावाभावगतिः भां०, का०, चं०, डे०, गु०, आ०, मां० ।-नाभावगतिः वि., वृ०, भा० ।-नाभावानगतिः वा०, पू०, बा०। ८ कार्यभावस्य वा०, पू०, मां०, बा० । कार्यभावस्याकारणाभावव्यभिचारात् सा०, गं० । ९-शानासंसर्गी वि०, वृ०। १० तत्रापि वादिनोऽभाव-वा०, पू०, बा०। ११ अत्र 'न प्रमेयाभावाभावः' इति पूरणीयम् । १२ जैनशाने। १३-भावादगतिः भा०, को०, गुः। १४ प्रमेयाभावाभावगतिः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy