SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे तद्देशाद्यसश्वस्यात्यन्तासत्त्वस्य चासत्प्रतिभासे कश्चिद्विशेषः यथाऽन्यदेशाद्यवस्थितमाकारं कुतचिद् भ्रमनिमित्ताद् ज्ञानं दर्शयति तथा अविद्यावशादत्यन्तासन्तमपि किं न दर्शयति । तथा च कथं शून्यवादादमुक्तिः ? तथा परतः प्रामाण्यमपि मिथ्यात्वाशङ्कायां कस्यचिज्ज्ञानस्य बाधकाभावान्वेषणा वक्तव्यम्, तदन्वेषणे च सापेक्षत्वं प्रमाणानामपरिहार्य विपरीतक्यातौ ततो न ५ कस्यचिद् ज्ञानस्य मिध्यात्वम् तदभावान्नान्यदेश- कालाकारार्थप्रतिभासः नापि बाधकाभावापेक्षा । भ्रान्ताभिमतेषु तु तथाव्यपदेशः स्मृतिप्रमोषात् । तथाहि - 'इदं रजतम्' इति प्रतीतौ 'इदम्' इति पुरोव्यवस्थितार्थप्रतिभासम्, 'रजतम्' इति पूर्वावगतरजतस्मरणं सादृश्यादेः कुतश्चिन्निमित्तात्, तश्च स्मरणमपि स्वरूपेण नावभासत इति स्मृतिप्रमोष उच्यते । यत्र 'स्मरामि' इति प्रत्ययस्तत्र स्मृतेरप्रमोषः, यत्र तु स्मृतित्वेऽपि 'स्मरामि' इति रूपाप्रवेदनं कुतश्चित् कारणात् तत्र १० स्मृतिप्रमोषोऽभिधीयते । अस्मिन् मते 'रजतम्' इति यत् फलसंवेदनं तत् किं प्रत्यक्षफलस्य सतः, किं वा स्मृतेः ? यदि प्रत्यक्ष कलस्य तदा यथा 'इदम्' इति प्रत्यक्षफलं प्रतिभाति तथा 'रजतम्' इत्यपि ततश्च तुल्ये प्रतिभासे 'एकं प्रत्यक्षन, अपरं स्मरणम्' इति किंकृतो विशेषः ? अथोक्तम्'स्मरणस्यापि सतस्तद्रूप नवगमात् तेनाकारेणावगमः' तत् किं 'रजतम्' इत्यत्राप्रतिपत्तिरेव ? तस्यां चाभ्युपगम्यमानायां कथं स्मृतिप्रमोषः ? अन्यथा मूर्छाद्यवस्थायामपि स्यात् । अथ 'इदम् ' १५ इति तत्र प्रत्ययाभावान्नासो, ननु 'इदम्' इत्यत्रापि वक्तव्यम् - किमाभाति ? पुरोऽवस्थितं शुक्तिशकलमिति चेत्, ननु किं प्रतिभासमानत्वेन तत् तत्र प्रतिभाति, उत सन्निहितत्वेन ? प्रतिभासमानत्वेन तथाऽभ्युपगमे न स्मृतिप्रमोषः, शुक्तिकाशकले हि स्वगतधर्मविशिष्टे प्रतिभासमाने कुतो रजतस्मरणसंभावना ? नहि घटग्रहणे पटस्मरणसंभवः । अथ शुक्तिका - रजतयोः सादृश्यात् शुक्तिप्रतिभासे रजतस्मरणन्, न; तस्यै विद्यमानत्वेऽप्य किंचित्करत्वात् । यदा ह्यसाधारणधर्माध्या२० सितं शुक्तिस्वरूपं प्रतिभाति तदा कथं सदृशवस्तुस्मरणम् ? अन्यथा सर्वत्र स्यात् । सामान्यमात्रग्रहणे हि तत् कदाचिद् भवेदपि, नासाधारणस्वरूपप्रतिभासे; तन्न 'इदम्' इत्यत्र शुक्तिकाशकलस्य प्रतिभासनात् तथाव्यपदेशः । सन्निहितत्वेनाप्रतिभासमानस्यापि तद्विषयत्वाभ्युपगमे इन्द्रिय. संबद्धानां तद्देशवर्त्तिनामण्वादीनामपि प्रतिभासः स्यात् । न चाप्रतिभासमानानामिन्द्रियादीनामिव प्रतीतिजनकानामपि तद्विषयता सङ्गच्छते; तन्न 'इदम्' इत्यत्र शुक्तिकाशकलप्रतिभासः । नापि २५‘रजतम्' इत्यत्र स्मृतित्वेऽपि तस्याः स्वरूपेणानवगमात् 'प्रमोषः' इत्यभ्युपगमो युक्तः । अथ स्मृतिरप्यनुभवत्वेन प्रतिभातीति तत्प्रमोषोऽभ्युपगम्यते, नन्वेवं सैव शून्यवाद - परतः प्रामाण्यभयादभ्युपगम्यमाना विपरीतख्यातिरापतिता । न चात्राप्रतिपत्तिरेव, 'रजतम्' इत्येवं स्मरणस्यानुभवस्य वा प्रतिभासनात्। इदमत्रै दंपर्यम्-अर्थसंवेदनमपरोक्षं सामान्यतोदृष्टं लिङ्गं यदि ज्ञातृव्यापारानुमापकमभ्युपगम्यते तदा स्मृतिप्रमोषे 'रजतम्' इत्यत्र संवेदनम्, उतासंवेदनम् १ ३० प्रतिभासोत्पत्तेः संवेदनेऽपि रजतमनुभूयमानतया न संवेद्यते, स्मृतिप्रमोषाभावप्रसङ्गात् । नापि स्मर्यमाणतया, प्रमोषाभ्युपगमात् । विपरीतख्यातिस्तु नाभ्युपगम्यते, तद् 'रजतम्' इत्यत्र संवेदन स्यापरोक्षत्वाभ्युपगमेऽपि प्रतिभासाभावः प्रसक्तः । किंच, स्मृतिप्रमोषः पूर्वोक्तदोषद्वयभयादभ्युपगतः तच्च तदभ्युपगमेऽपि समानम् । तथाहि सम्यग्रजतप्रतिभासेऽपि आशङ्कोत्पद्यते - 'किमेष स्मृतावपि स्मृतिप्रमोषः, उत सम्यगनुभवः' इति सापेक्षत्वाद् बाधकाभावो (वा) न्वेषणे ३५ परतःप्रामाण्यम् । तत्र च भवन्मतेनानवस्था प्रदर्शितैव । यत्र हि स्मृतिप्रमोषस्तत्रोत्तर कालभावी बाधकप्रत्ययः, यत्र तु तदभावस्तत्र स्मृतिप्रमोषासम्भव इति कथं न बाधकाभावापेक्षायां परत:प्रामाण्यदोषभयस्यावकाशः ? शून्यवाददोषभयमपि स्मृतिप्रमोषाभ्युपगमेऽवश्यंभावि । तथाहिध्वस्त श्री हर्षाद्याकारः, अनुत्पन्नशङ्खचक्रवर्त्याद्याकारश्च ज्ञाने यः प्रतिभाति सोऽवश्यं ज्ञानरचिनोऽसन् प्रतिभाति; रजतादिस्मृतेरप्यसन्निहितरजताकारप्रतिभासस्वभावत्वात् तत्सत्त्वं तदुत्पत्तावसनि ४० हितं नोपयुज्यत इति असदर्थविषयत्वे ज्ञानस्य कथं शून्यवादभयाद् भवतः स्मृतिप्रमोषवादिनो मुक्ति: ? तत्र स्मृतिप्रमोषः । कश्चायं स्मृतिप्रमोषः ? किं स्मृतेरभावः, उतान्यावभासः, आहोस्विद् अन्याकारवेदित्वम् इति विकल्पाः । तत्र नासौ स्मृतेरभावः, प्रतिभासाभावप्रसङ्गात् । २८ १ अत्यन्तासत्वमपि गु० । २ प्र० पृ० पं० ८ । ३ " सादृश्यस्य" । ४ " यथार्थज्ञानस्थलेऽपि" गु० टि० । ५ बाधकान्वेषणे वा० पू०, बा० विना सर्वत्र । ६-स्वभावत्वात् सत्त्वं तदु-वा०, वि०, चं०, पू०, बा० ।-स्वभावत्वात् तत् सत्यं तदु- डे०, आ०, गु०, भा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy