SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रामाण्यवादः। परिकल्पयति तथा येन विनाऽपि स उपपद्यते तमपि किंन कल्पयति विशेषाभावात? अथानिश्चितोऽपि तेन विनाऽनुपपद्यमानत्वेन निश्चितः स तं परिकल्पयति तर्हि लिङ्गस्यापि नियतत्वेनानिश्चितस्यापि स्वसाध्यगमकत्वं स्यात्, तथा च अर्थापत्तिरेव परोक्षार्थनिश्चायिका नानुमानमिति षटप्रमाणवादाभ्युपगमो विशीर्येत । अथ अन्यथानुपपद्यमानत्वेन निश्चितः स धर्मस्तं परिकल्पयति, तदा वक्तव्यम्-क्क तस्यान्यथानुपपन्नत्वनिश्चयः? यदि दृष्टान्तर्मिणि तदा लिङ्गस्यापि तत्र नियतत्व- ५ निश्चयोऽत्तीत्यनुमानमेवार्थापत्तिः स्यात्, एवं चार्थापत्तिरनुमानेऽन्तर्भूतेति पुनरपि प्रमाणषट्रकाभ्युपगमो विशीर्येत। अब साध्यधर्मिणि तन्निश्चय इत्यनुमानात् पृथगपत्तिः, तदात्रापि वक्तव्यम्कुतःप्रमाणात् तस्य तन्निश्चयः? यदि विपक्षऽनुपलम्भात्, तन्न युक्तम् ; सर्वसम्बन्धिनोऽनुपलम्भस्यासिद्धत्वप्रतिपादनात्, आत्मसंबन्धिनस्तु अनैकान्तिकत्वादिति नान्यथाऽनुपपद्यमानत्वनिश्चयः। किंच, अर्थापत्त्युत्थापकस्यार्यानुभूयमानतालक्षणस्यार्थधर्मस्य य एव स्वप्रकल्प्यार्थाभावेऽ-१० वश्यंतयाऽनुपपद्यमानत्वनिश्चयः स एव स्वप्रकल्प्यार्थसद्भावे एवोपपद्यमानत्वनिश्चय इत्यर्थापत्त्युत्थापकस्यार्थस्य, स्वसाध्यानुमापकस्य च लिङ्गस्य न कश्चिद्विशेष इत्यनुमाननिरासेऽर्थापतेरपि निरासः कृत एवेति नार्थापत्तेरपि ज्ञातृव्यापारलक्षणप्रमाणनिश्चायकत्वम् । येऽपि “संवित्त्याख्यं फलं ज्ञातृव्यापारसद्भावे सामान्यतोदृष्टं लिङ्गम्" आहुः, तन्त्रतमप्यसम्यक् यतः संवेदनापस्य लिङ्गस्य किम् अर्थप्रतिभासस्वभावत्वम्, उत तद्विपरीतत्वम् इति कल्पनाद्वयम्। तत्रार्थप्रति १५ भासस्वभावत्वे किमपरेण झातृव्यापारेण कथितेन इ.ते वक्तव्यम् । तदुत्पत्तिस्तेन विना न सम्भवतीति चेत्, न; इन्द्रियादेस्तदुत्पादकस्य सद्भावाद् व्यर्थ तत्परिकल्पनम् । क्रियामन्तरेण कारककलापात् फलानिष्पत्तेः तत्कल्पनेति चेत्, नन्विन्द्रियादिसामग्र पस्य व व्यापारः इति वक्तव्यम् । क्रियोत्पत्ताविति चेत्, साऽपि क्रिया क्रियान्तरमन्तरेण कथं कारककलापादपजायते इति पुनरपि तदेव चोद्यम् । क्रियान्तरकल्पनेऽनवस्था प्राक् प्रतिपादित; तन्नार्थप्रतिभास-२० स्वभावत्वेऽन्यो व्यापारः कल्पनीयः, निष्प्रयोजनत्वात् । अथ द्वितीया कल्पनाऽभ्युपगम्यते, साऽपि न युक्ता; यतोऽर्थस्य संवेदनं तद् भवज् ज्ञातृव्यापारलिङ्गतां समासादयति, सा च तदसंवेदनस्वभावस्य कथं सङ्गता? शेषं तु पूर्वमेव निर्णीतमिति न पुनरुच्यते । किंच, अर्थप्रतिभासस्वभावं संवेदनम्, शाता, तद्यापारश्च बोधात्मको नैतत् त्रितयं क्वचिदपि प्रतिभाति । अथ 'घटमहं जानामि' इति प्रतिपत्तिरस्ति, न चैषा निहोतुं शक्या, नाप्यस्याः किश्चिद् बाधकमुपलभ्यते, तत्२५ कथं न त्रितयसद्भावः ? तथाहि-'अहम्'इति ज्ञातुःप्रतिभासः, 'जानामि' इति संवेदनस्य, 'घटम्'इति प्रत्यक्षस्यार्थस्य, व्यापारस्य त्वपरस्य प्रमाणान्तरतः प्रतिपत्तिरित्यभ्युपगमः, अयुक्त तत्; यतः कल्पनोदूभूतशब्दमात्रमेतत्, न पुनरेष वस्तुत्रयप्रतिभासः। अत एवोक्तमाचार्यग-"एकमेवेदं संविद्रूपं हर्प-विषादाद्यनेकाकारविवर्त्त समुत्पश्यामः तत्र यथेष्टं संज्ञाः क्रियन्ताम्" [ ] किंच, व्यापारनिमित्त कारकसंबन्धे विकल्पद्वयम्-किं पूर्व व्यापारः पश्चात् संवन्धः, उत पूर्व संबन्धः३० पश्चाद् व्यापारः ? पूर्वस्मिन् पक्षे न व्यापार्थः संबन्धः, पूर्वमेव व्यापारसद्भावात् । उत्तरस्मिन् पुनर्विकल्पद्वयम्-संबन्धे सति किं परस्परसापेक्षाणां स्वव्यापारकर्तृत्वम्, उत निरपेक्षाणाम् ? सापेक्षत्वे व्यापारकर्तृत्वानुपपत्तिः, अनेकजन्यत्वात् तस्य । निरपेक्षत्वे किं मीलनेन ? ततश्च संसर्गावस्थायामपि स्वव्याप.रकरणादनवरतफल सिद्धिः, न चैतद् दृष्टमिष्टं वा; तन्न युकं व्यापारस्याप्रतीयमानस्य कल्पनम् । को ह्यन्यथा संभवति फलेऽप्रतीयमानकल्पनेनात्मानमायासयति ?३५ अन्यथासंभवश्व-इन्द्रियादिषु सत्सु फलस्य प्रागेवं दर्शितः, इन्द्रियादेस्तवाभ्युपगमनीयत्वात् । इतोऽपि संवेदनाख्यं फलमपरोक्षं व्यापारानुमापकमयुक्तम्, स्वदर्शनव्याघातप्रसक्तेः । ताहि-भवता शून्यवाद-परतःप्रामाण्यप्रसक्तिभयात् स्मृतिप्रमोषोऽभ्युपगतः, विपरीतख्यातौ तयोरवश्यंभावित्वात् । तथाहि-तस्यामन्यदेश-कालोऽर्थस्तद्देश-कालयोरसन् प्रतिभातिः न च १ ग्रन्थानम् श्लो. १००० । २ पृ. १८ पं०७। ३ पृ. १८५० ८। ४ लक्षणार्थधर्म-कां । ५पृ० २६ पं०९। ६ अर्थानुसारेण विचारणाद् अत्र 'ततश्चाऽसंसर्गा-' इति पाठो युक्तः, "वि.' प्रतावपि पश्चात् परिष्कृतः एष पाटो दृष्टः। ७ प्र० पृ. पं० १७। ८ अयं 'तथाहि' शब्दः इत आरभ्य 'प्रतिभासाभावः प्रसक्तः' (पृ. २८ पं० ३२) इतिपर्यन्तं योज्यः ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy