SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे । २५ प्यते च प्रमाणचिन्ताऽवसरे अत्रैव; तन्नाभावप्रमाणादपि विपक्षे साधनाभावनिश्चयः, अतो न अदर्शननिमित्तोऽपि प्रकृतव्यतिरेकनिश्चयः, तभावाद् न प्रकृतसाध्ये प्रकृतहेतोर्नियमलक्षणसंबन्धनिश्चयः। न चान्वय-व्यतिरेकनिश्चयव्यतिरेकेणान्यतः कुतश्चित् तन्निश्चयः, नियमलक्षणस्य संबन्धस्य यथोक्तान्वय-व्यतिरेकव्यतिरेकेणासम्भवात् । तथाहि-य एव साधनस्य साध्यसद्भावे पव भावः ५ अयमेव तस्य साध्ये नियमः, साध्याभावे साधनस्यावश्यतयाऽभाव एव यः अयमेव वा तस्य तत्र नियमः। अतो यदेवान्वय-व्यतिरेकयोर्यथोक्तलक्षणयोर्निश्चायकं प्रमाणं तदेव नियमस्वरूपसम्बन्धनिश्चायकम् , तन्निश्चायकं च प्रकृतसाध्यसाधने हेतोर्न सम्भवतीति प्रतिपादितम् तन्नानुमानादपि ज्ञातृव्यापारलक्षणप्रमाणसिद्धिः। अथापि स्यात् बाह्येषु कारकेषु व्यापारवत्सु फलं दृष्टम् अन्यथा सिद्धस्वभावानां कारकाणामेकं १० धात्वर्थ साध्यमनङ्गीकृत्य कः परस्परं सम्बन्धः-अतस्तदन्तरालवर्तिनी सकलकारकनिष्पाद्याs. भिमतफलजनिका व्यापारस्वरूपा क्रियाऽभ्युपगन्तव्या इति प्रकृतेऽपि व्यापारसिद्धिरिति, एतदसम्बद्धम् ; विकल्पानुपपत्तेः । तथाहि-व्यापारोऽभ्युपगम्यमानः किं कारकजन्योऽभ्युपगम्यते, आहोस्विदू अजन्यः इति विकल्पद्वयम् । तत्र यद्यजन्य इति पक्षः, सोऽयुक्तः, यतोऽजन्योऽपि किं भावरूपोऽभ्युपगम्यते, आहोस्विद् अभावरूपः? यद्यभावरूप इत्यभ्युपगमः, सोऽप्ययुक्तः, यतोऽ-१५ भावरूपत्वे तस्यार्थप्रकाशलक्षणफलजनकत्वं न स्यात्, तस्य फलजनकत्व विरोधात्; अविरोधे वा फलार्थिनः कारकान्वेषणं व्यर्थ स्यात्, तत एवाभिमतफलनिष्पत्तेर्विश्वमदरिद्रं च स्यात् । तन्नाभावरूपो व्यापारोऽभ्युपगन्तव्यः। अथ भावरूपोऽभ्युपगमविषयः, तदाऽत्रापि वक्तव्यम्-किमसौ नित्यः, आहोस्विद् अनित्यः इति? तत्र यदि नित्य इति पक्षः, सोऽसङ्गतः; नित्यभावरूपव्यापाराभ्युपगमेऽन्धादीनामप्यर्थदर्शनप्रसङ्गः, सुप्ताद्यभावः, सर्वसर्वज्ञताभावप्रसङ्गश्च; कारकान्वेषणवैयर्थ्य तु २० व्यक्तम् । अथानित्य इत्यभ्युपगमः, सोऽयलौकिकः; अजन्यस्य भावस्यानित्यत्वेन केनचिदनभ्युपगमात् । अथ वदेत्-मयैवाभ्युपगतः, तत्रापि वक्तव्यम्-किं कालान्तरस्थायी, उत क्षणिकः? यदि कालान्तरस्थायी, तदा "क्षणिका हि सा न कालान्तरमवतिष्ठते" [ ] इति वचः परिप्लवेत । कारकान्वेषणं चात्रापि पक्षे फलार्थिनामसङ्गतम्, कियत्कालस्थाय्यजन्यभावरूपव्यापाराभ्युपगमे तत्कालं यावत् तत्फलस्यापि निष्पत्तेः आव्यापारविनाशमर्थप्रकाशलक्षणकार्य-२५ सद्भावादन्यत्व-मू दीनामभावः स्यात् । अथ क्षणिक इति पक्षः, सोऽपि न युक्तः, क्षणानन्तरं व्यापारासत्त्वेनार्थप्रतिभासाभावाद् अपगतार्थप्रतिभासं सर्व जगत् स्यात् । अथ स्वत एव द्वितीयादिक्षणेषु व्यापारोत्पत्तेर्नायं दोषः, अजन्यत्वं तु तस्यापरकारकजन्यत्वाभावेन, नैतदस्ति; कारकाsनायत्तस्य देश-काल-स्वरूपप्रतिनियमाभावस्वभावतायाः प्रतिपादनात्। किंच, अनवरतक्षणिकाsजन्यव्यापाराभ्युपगमे तजन्यार्थप्रतिभासस्यापि तथैव भावात् सुप्ताद्यभावदोषस्तदवस्थः; तन्नाजन्य-३० व्यापाराभ्युपगमः श्रेयान् । अथ जन्यो व्यापारः इति पक्षः कक्षीक्रियते, तदाऽत्रापि विकल्पद्वयम्किमसौ जन्यो व्यापारः क्रियाऽऽत्मकः, उत तदनात्मकः इति? तत्र यदि प्रथमः पक्षः, सन युक्तः, अत्रापि विकल्पद्वयानतिवृत्तेः । तथाहि-साऽपि क्रिया किं स्पन्दात्मिका, उत अस्पन्दात्मिका? यदि स्पन्दात्मिका तदाऽऽत्मनो निश्चलत्वादन्येषां कारकाणां व्यापारसद्भावेऽपि व्यापारो न स्यात्। यदर्थोऽयं प्रयासस्तदेव त्यक्तं भवतवमभ्युपगच्छता । अथापरिस्पन्दात्मिका क्रिया व्यापारस्वभावा, ना तथाभूतायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात् अभावस्य जनकत्वविरोधात् । न च क्रिया कारण-फलाऽपान्तरालवर्तिनी परिस्पन्दस्वभावा तद्विपरीतस्वभावा वा प्रमाणगोचरचारिणी इति न तस्याः सद्यवहारविषयत्वमभ्युपगन्तुं युक्तमिति न क्रियाऽऽत्मको व्यापारः। नापि तदनात्मको व्यापारोऽङ्गीकर्त युक्तः, तत्रापि विकल्पद्वयप्रवृत्तेः। तथाहि-किमसावक्रियाऽऽत्मको व्यापारो बोधस्वरूपः, अबोधस्वभावो वा? यदि बोधस्वरूपः, प्रमातृवन्न ४० प्रमाणान्तरगम्यताऽभ्युपगन्तुं युक्ता । अथाबोधस्वभावः, नायमपि पक्षा, बोधात्मकज्ञातृव्यापारस्याबोधात्मकत्वासम्भवात्-न हि चिद्रूपस्याचिद्रूपो व्यापारी युक्तः–'जानाति' इति च ज्ञातृव्यापारस्य बोधात्मकस्यैवाभिधानात् तन्न अबोधस्वभावोऽपि व्यापारः। किंच, असौ ज्ञातृव्यापारो धर्मि१ अयं च विकल्पः पृ. २० दशमपङ्कित भारम्धः। २ पृ. १. पं० २। स० त०४
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy