SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ २४ प्रामाण्यवादः। इत्यभावप्रमाणोत्पत्तौ निमित्तप्रतिपादनम्, तत्र किं वस्त्वन्तरस्य प्रतियोगिसंसृष्टस्य ग्रहणम् , आहोस्विदू असंसृष्टस्य ? तत्र यद्याद्यः पक्षा, सन युक्तः प्रतियोगिसंसृष्टवस्त्वन्तरस्य प्रत्यक्षेण ग्रहणे प्रतियोगिनः प्रत्यक्षेण वस्त्वन्तरे ग्रहणादू नाभावाख्यप्रमाणस्य तत्र तदभाव ग्राहकत्वेन प्रवृत्तिः प्रवृत्तौ वा प्रतियोगिसत्त्वेऽपि तदभावग्राहकत्वेन प्रवृत्तेर्विपर्यस्तत्त्वान्न प्रामाण्यम् । अथ ५प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणं तदा प्रत्यक्षेणैव प्रतियोग्यभावस्य गृहीतत्वात् तत्राभावाख्यं प्रमाणं प्रवर्त्तमानं व्यर्थम् । अथ प्रतियोग्यसंसृष्टताऽवगमो वस्त्वन्तरस्याभावप्रमाणसंपाद्यस्तर्हि तदप्यभावाख्यं प्रमाणं प्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणे सति प्रवर्तते, तदसंसृष्टतावगमश्च पुनरप्यभावप्रमाणसंपाद्य इत्यनवस्था । तथा, प्रतियोगिनोऽपि स्मरणं किं वस्त्वन्तरसंसृष्टस्य, अथासंसृष्टस्य ? यदि संसृष्टस्य तदा नाभावप्रमाणप्रवृत्तिरिति पूर्ववद्वाच्यम् । अथासंसृष्टस्य स्मरणम् , ननु प्रत्यक्षेण १० वस्त्वन्तरासंसृष्टस्य प्रतियोगिनो ग्रहणे तथाभूतस्य तस्य स्मरणं नान्यथा; प्रत्यक्षेण च पूर्वप्रवृत्तेन वस्त्वन्तरासंसृष्टप्रतियोगिग्रहणे पुनरप्यभावप्रमाणपरिकल्पनं व्यर्थम् ___ "वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रया" ॥ [श्लो० वा० सू० ५, अभावप० श्लो० २] इत्यभिधानात् तदर्थ तस्य परिकल्पनम् , तच्च प्रत्यक्षेणैव कृतमिति तस्य व्यर्थता। अथात्राप्यभावप्रमाण संपाद्यःप्रतियोगिनो वस्त्वन्तरासंसृष्टताग्रहस्तर्हि तथाभूतप्रतियोगिग्रहणे तथाभूतस्य तस्य स्मरणम्, १५ तत्सद्भावे चाभावप्रमाणप्रवृत्तिः, तत्प्रवृत्तौ च तस्यासंसृष्टताग्रहः, तहे च स्मरणमित्येवं चक्रकचोयं भवन्तमनुबध्नाति। नापि वस्तुमात्रस्य प्रत्यक्षेण ग्रहणमित्यभिधातुं शक्यम् , तथाऽभ्युपगमे तैस्य वस्त्व. न्तरत्वासिद्धेःप्रतियोगिनोऽपि प्रतियोगित्वस्य, इति न प्रतियोगिनो नियतरूपस्य स्मरणमिति सुतरामभावप्रमाणोत्पत्यभावः। किंच, यदि अभावाख्यं प्रमाणमभावग्राहकमभ्युपगम्यते तदा तमेवे प्रतिपाद यतु, प्रतियोगिनस्तु निवृत्तिः कथं तेन प्रतिपादिता स्यात् ? अथाभावप्रतिपत्तौ तन्निवृत्तिप्रतिपत्तिः; २० ननु साऽपि निवृत्तिः प्रतियोगिस्वरूपासंस्पर्शिनी, ततश्च तत्प्रतिपत्तौ पुनरपि कथं प्रतियोगिनिवृ. त्तिसिद्धिः? तन्निवृत्तिसिद्धेरपरतन्निवृत्तिसिद्ध्यभ्युपगमे अपरा तन्निवृत्तिस्तथाऽभ्युपगमनीयेत्यनवस्था । किंच, अभावप्रतिपत्तौ प्रतियोगिस्वरूपं किमनुवर्त्तते, व्यावर्त्तते वा ? अनुवृत्तौ कथं प्रतियोगिनोऽभावः? व्यावृत्तौ कथं प्रतिषेधः प्रतिपादयितं शक्यः? तद्विविक्तप्रतिपत्तेस्तत्प्रतिषेध इति चेत्, न तदप्रतिभासने तद्विविक्तताया एव प्रतिपत्तुमशक्तेः । प्रतियोगिप्रतिभासाद् नायं दोष इति २५चेत्, कतर्हि विज्ञाने तस्य प्रतिभासः? यदि प्रत्यक्षे, न युक्तः तत्सद्भावसिद्धया तन्निवृत्त्यसिद्धेः। स्मरणे तस्य प्रतिभास इति चेत्, नः तत्रापि येन रूपेण प्रतिभाति न तेनाभावः, येन न प्रतिभाति न तेन निषेधः, तदेवं यदि प्रतियोगिस्वरूपादन्योऽभावस्तथापि तत्प्रतिपत्तौ न तन्निवृत्तिसिद्धिः। अनन्यत्वेऽपि तत्प्रतिपत्तो प्रतियोगिनः प्रतिपन्नत्वादन निषेधः। अपि च, तद अभावाख्यं प्रमाणं निश्चितं सत् प्रकृताभावनिश्चयनिमित्तत्वेनाभ्युपगम्यते, आहोस्विद् अनिश्चितम् इति विकल्पद्व३० यम् । यद्यनिश्चितमिति पक्षा, सन युक्तः; स्वयमव्यवस्थितस्य खरविषाणादेरिव अन्यनिश्चायकत्वायोगात् । इन्द्रियादेस्त्वनिश्चितस्यापि रूपादिज्ञानं प्रति कारणत्वान्निश्चायकत्वं युक्तम्, न पुनरभा. वप्रमाणस्य, तस्यापरज्ञानं प्रति कारणत्वासम्भवात् । तदसम्भवश्व-प्रमाणाभावात्मकत्वेनावस्तुत्वात्। वस्तुत्वेऽपि तस्यैव प्रमेयाभावनिश्चयरूपत्वेनाभ्युपगमाहत्वात् । नापि द्वितीयः पक्षः, यत स्तन्निश्चयोऽन्यस्मादभावाख्यात् प्रमाणादभ्युपगम्येत, प्रमेयाभावाद् वा? तत्र यदि प्रथमपक्षा, स ३५न युक्तः, अनवस्थाप्रसङ्गात् । तथाहि-अभावप्रमाणस्याभावप्रमाणानिश्चितस्याभावनिश्चायकत्वम्, तस्याप्यन्याभावप्रमाणादू इत्यनवस्था। अथ प्रमेयाभावात् तन्निश्चयः, सोऽपि न युक्तः, इतरेतराश्र. यदोषप्रसङ्गात्। तथाहि-प्रमेयाभावनिश्चयात् प्रमाणाभावनिश्चयः, सोऽपि प्रमाणाभावनिश्चयाद् इति इतरेतराश्रयत्वम् । नापि स्वसंवेदनात् प्रमाणाभावनिश्चयः, तस्य भवताऽनभ्युपगमात् तन्न अभावाख्यं प्रमाणं सम्भवति । सम्भवेऽपि न तत् प्रमाणचिन्ताह मिति प्रतिपादितम्, प्रतिपादयि १ "प्रतियोगिशब्देन संसृष्टत्वम् "गु० टि०। २ तथाभूतस्य स्मरणम् कां०, हा०, आ०, अ० । ३ तस्य वस्त्वन्तरत्वासिद्धो (द्धौ)न प्रतियोगिनो नियतरूपस्य सर-डे० । ४ अत्र 'असिद्धेः' इति अध्याहार्यम् । ५ अभावमेव ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy