________________
४२२
प्रथमे काण्डे[ दृष्टान्तोपन्यासप्रयोजकानां तद्गुणानां परिगणनम् ] दृष्टान्तगुणप्रतिपादनायाह
लोइयपरिच्छयसुहो निच्छयवयणपडिवत्तिमग्गो य।
अह पण्णवणाविसउ त्ति तेण वीसत्थमुवणीओ ॥ २६ ॥ ५ व्युत्पत्तिविकल-तयुक्तप्राणिसमूहसुखग्राह्यत्वम् एकानेकात्मकभावविषयवचोऽवगमजनकत्वं च
अथ इत्यवधारणार्थः अनन्तधर्मात्मकवस्तुप्ररूपकवाक्यविषयत्वं दृष्टान्तस्यैव । एतैः कारणैः शडा. व्यवच्छेदेन अयमुपदर्शित इति गाथातात्पर्यार्थः।
न चावल्यवस्थायाः प्राग् उत्तरकालं च रत्नानां पृथगुपलम्भात् इह च सर्वदा तथोपलम्भाभा. वाद विषममुदाहरणमिति वक्तव्यम् , आवल्यवस्थाया उदाहरणत्वेनोपन्यासात् । न च दृष्टान्त-दार्टा१०न्तिकयोः सर्वथा साम्यम् तत्र तद्भावानुपपत्तेः ॥ २६ ॥
[ दृष्टान्तस्य साध्यसमतां वदतामेकान्तवादिनां निरासाय पश्चानां तदभिप्रायाणां निर्देशः] (१) "रत्नादिकारणेष्वावल्यादिकार्य सदेव" [
] इति साह्वयः। (२) “तेषामेवानेन रूपेण व्यवस्थितत्वात् तदव्यतिरिक्तं विकारमानं कार्य त एव" [ ] इति साङ्ख्य विशेष एव । १५ (३-४) “न कार्य कारणे विद्यते इति तेभ्यस्तत् पृथग्भूतम् नहि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा" [
] इति वैशेषिकादयः । (५) "न च कार्यम् कारणं वास्ति द्रव्यमात्रमेव तत्त्वम्" [
] इत्यपरः। एवंभूताभिप्रायवन्त एकान्तवादिनो दृष्टान्तस्य साध्यसमतां मन्यन्ते तान् प्रत्याह
इहरा समूहसिद्धो परिणामकओ व्व जो जहिं अत्थो।
ते तं च ण तं तं चेव व त्ति नियमेण मिच्छत्तं ॥ २७॥ इतरथा उक्तप्रकारादन्यथा समूहे रत्नानां सिद्धो निष्पन्नः परिणामकृतो वा मण्या
२०
१ "परीक्षक"-बृ० ल. मां. टि.।
"अथ दृष्टान्तः xxx यत्र लौकिक-परीक्षकाणां दर्शनं न व्याहन्यते"-अ० १। आ० १। सू० १ न्यायद. वात्स्या० पृ. ४ पं० १९।।
"लौकिक-परीक्षकाणां दर्शनाविघातहेतुरिति"-न्यायवा० पृ० १५५० १२ । न्यायवार्तिकता० पृ० ५२ पं० ११ । "लौकिक-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः”-अ० १ । आ० १ । सू० । २५ ।
xxx यथा यमर्थ लौकिका वुध्यन्ते तथा परीक्षका अपि सोऽर्थो दृष्टान्तः"-न्यायद० वात्स्या० पृ० ४८ पं० १७॥ न्यायवा० पृ० १०२ पं० १६ । न्यायवार्तिकता. पृ० २६१ पं०१६ । नियुक्तिकारो भद्रबाहुखामी दृष्टान्तपर्यायाने निर्दिशति"नायमुदाहरणं ति अ दिटुंतोवम निदरिसणं तह य। एगटुं तं दुविहं चउव्विहं चेव नायव्वं" ॥५२॥
-दशवै. निर्यु. पृ. ३४ प्र.। खयं प्रन्थकारस्तु स्खीये न्यायावतारसूत्रे दृष्टान्तखरूपमेवं विवृणोतिः
"साध्य-साधनयोर्व्याप्तिर्यत्र निश्चीयतेतराम् । साधर्येण स दृष्टान्तः सम्बन्धस्मरणान्मतः" ॥ “साध्ये निवर्तमाने तु साधनस्याप्यसंभवः । ख्याप्यते यत्र दृष्टान्ते वैध>णेति स स्मृतः"। "अन्तर्व्याप्त्यैव साध्यस्य सिद्धर्बहिरुदाहृतिः । व्यर्था स्यात् तदसद्भावेप्येवं न्यायविदो विदुः" ॥
-न्यायावता० श्लो० १८-१९-२० । २-वण्णावि-भां०। ३ "रत्नावलीति दृष्टान्तः"-बृ. ल. भां० मा.टि.। ४ तं व वृ. ल. वा. बा. हा०। तं वं-भां।