SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - णय तइओ अत्थि णओ ण य सम्मत्तं ण तेसु पडिपुण्णं । जेण दुवे एगन्ता विभज्जमाणा अणेगन्तो ॥ १४ ॥ न च तृतीयः परस्परसापेक्षोभयग्राही अस्ति नयः कश्चित् तथाभूतार्थस्यानेकान्तात्मकत्वात् तद्राहिणः प्रत्ययस्य नयात्मकत्वानुपपत्तेः । न च सम्यक्त्वं न तयोः प्रतिपूर्ण ५ प्रतिषेधद्वयेन प्रकृतार्थावगतेः । अशेषं हि प्रामाण्यं सापेक्षं गृह्यमाणयोरनयोरेवंवि. ययोर्व्यवस्थितं येन द्वावपि एकान्तरूपतया व्यवस्थितौ मिथ्यात्व निबन्धनम् तत्परित्यागेनाऽन्व- व्यतिरेकौ विशेषेण परस्परात्यागरूपेण भज्यमानौ गृह्यमाणावनेकान्तो भवतीति सम्यक्त्वहेतुत्वमेतयोरिति ॥ १४ ॥ ४१६ १० [ निरपेक्षग्राहित्वे मूलनयवदुत्तरनयानामपि मिथ्यात्ववर्णनम् ] एवं सापेक्षद्वयग्राहिणो नयत्वानुपपत्तेस्तृतीयनयाभावः प्रदर्शितः, निरपेक्षग्राहिणां तु मिथ्यात्वं दर्शयितुमाह २५ जह एए तह अण्णे पत्तेयं दुण्णया णया सवे । हंदि हु मूलणयाणं पण्णवेणे वावडा ते वि ॥ १५ ॥ यथा एतौ निरपेक्षद्वयग्राहिणौ मूलनयौ मिथ्यादृष्टी तथा उभयवादरूपेण व्यवस्थिताना१५ मपि परस्परनिरपेक्षत्वस्य मिथ्यात्वनिबन्धनस्य तुल्यत्वात् प्रत्येकम् इतरानपेक्षा अन्येऽपि दुर्नयाः न च प्रकृतनयद्वयव्यतिरिक्तनयान्तरारब्धत्वादुभयवार्दंस्य नयानामपि वैचित्र्यादन्यत्रारोपयितुमशक्यत्वात् तद्रूपस्यान्ये सम्यक्प्रत्यया भविष्यन्तीति वक्तव्यम्, यतः हंदि इत्येवं गृह्यतां हुः इति हेतौ मूलनयद्वयपरिच्छिन्नवस्तुन्येव व्यापृतास्तेऽपि तद्विषयव्यतिरिक्तविषयान्तरा भावात् सर्वनयवादानां च सामान्यविशेषोभयैकान्तविषयत्वात् । तन्न नयान्तरसद्भावः यतः तदा२० रब्धोभयवादे नयान्तरं भवेत् ॥ १५ ॥ [ सङ्ग्रहादीनां मूलनयग्राह्यग्रा हित्वान्नोभयवादप्रज्ञापकत्वमिति प्रदर्शनम् ] ननु सङ्ग्रहादिनय सद्भावात् कथं तद्व्यतिरिक्तनयान्तराभावः ? सत्यम्, सन्ति सङ्ग्रहादयः किन्तु तद्विषयव्यतिरिक्तविषयान्तराभावतस्तद्वितयविषयास्तेऽपि तद्दूषणेनैव दूषिताः यतो न मूलच्छेदे तच्छाखास्तदवस्थाः संभवन्तीत्याह सव्वणयसमूहम्मि वि णत्थि णओ उभयवायपण्णर्वओ । मूलणयाण आणं पत्तेय विसेसिंयं बिंति ॥ १६ ॥ संग्रहादिसकलनयसमूहे ऽपि नास्ति कश्चिद् नय उभयवादप्ररूपकः यतः मूलनयाभ्यामेव यत् प्रतिज्ञातं वस्तु तदेव आश्रित्य प्रत्येकरूपाः संग्रहादयः पूर्वपूर्वनयाधिगतांशविशिष्टमंशान्तरमधिगच्छन्तीति न विषयान्तरगोचराः । अतो व्यवस्थितम् परस्परात्यागप्रवृत्तसा ३० मान्यविशेषविषयसङ्ग्रहीं द्यात्मकै नयद्वयाधिगम्यात्मैकत्वात् वस्त्वप्युभयात्मकम् ॥ १६ ॥ परिभाषावचनं प्रसिद्धम् । २ अन्वयरूपो द्रव्यार्थिकः व्यतिरेकरूपः ४ - ग्राहिणोर्नय - वृ० वा०बा० आ० हा० वि० । ५-वणावा-ल० ७ व्यावृतास्ते- बृ० ल० । व्यावृत्तास्ते वा० वा० । ८- स्तद्विष१० उ याणं आ हा० वि० । ११-यं बेंति वृ० १३-कभय-वा० बा० । १४- गमात्म-वृ० ल० वा० । १ 'द्वौ नत्रौ प्रकृतमर्थं गमयतः' इति पर्यायार्थिकः । ३-तुत्वभूत- वा० बा० । भां० मां० । ६- दस्या न-ल० विना । यविषया वा० बा० । ९ चउ । बृ० । कहा० वि० । हाश्वात्मक-आ० । बिना । १५ - स्मत्वात् वा० वा० । १२-हाद्या बा० भ० मां०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy