SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ४०५ ग्रहणमेव मेदग्रहणम् तद्भेदाग्रहणमेव तदनुप्रवेशस्वरूपनित्यत्वग्रहणमित्यस्यापि वक्तुं शक्यत्वात् । न च स्वरूपमेव भेद इति तद्हणे भेदग्रहः अभेदेऽप्यस्य समानत्वात् । तथा च 'पूर्वमेवेदं मया दृष्टम्' 'पूर्वदृष्टं पश्यामि' इति च पूर्वोत्तरज्ञानयोर्भाविभूतज्ञानेकार्थविषयताव्यवस्थापकं निश्चयद्वयं यथाक्रममुपजायमानं संलक्ष्यत इति यथा 'नीलमिदं पश्यामि' इति तद्यापारानुसारिविकल्पोदयात् तत्प्रतिभासोऽध्यक्षस्याविकल्पकस्य व्यवस्थाप्यते तथा प्रकृतेऽपि पूर्वोत्तरशानद्वये अभेद-५ प्रतिभासो व्यवस्थापनीयः न्यायस्य समानत्वात् । इदमेव वा निश्चयद्वयमक्षव्यापारानुसारित्वादध्यक्षतामनुभवति यतो नेमानुमानिकम् लिङ्गाद्यनपेक्षतयोत्पत्तेः, नापि भ्रान्तम् बाधकाभावात् , न च स्मृतिरूपम् अपूर्वार्थप्रतिपत्तेः । न च प्रथाँक्षव्यापारानन्तरमनुत्पत्तेः स्मरणरूपताऽस्य, विशिष्टसामग्र्यन्तर्भूतेन्द्रियजन्यतया प्रागनुत्पादेऽपि स्मरणरूपतानुपपत्तेः । अत एवोत्पाद्यमाने पटादौ 'अनागताध्यवसायोऽध्यक्षम्' इति केचित् सम्प्रतिपन्नाः । न हनध्यवसितमुत्पाद्यते तथा १० चोत्पन्ने तदुत्पादकानां प्रतिपत्तिः यदेवोत्पादयितुमध्यवसितं तदेवोत्पादितम् यदेव चोत्पादितं तदेवाध्यवसितमित्यभेदप्रतिपत्तिः सङ्गता भवति । न चास्या अनिमित्तता अनियतनिमित्तता वा कादाचित्कतयाऽनिमित्तत्वस्याभावात् लिङ्गादिनिमित्ताभावतः पारिशेष्यादिन्द्रियलक्षणनियतनिमित्तत्वाचे । न चैवम्भूतप्रतिपत्तर्मिथ्यात्वेनोपलब्धेरियमपि मिथ्या, प्रत्यक्षस्यापि कस्यचिन्मि थ्यात्वोपलब्धेः सर्वस्य मिथ्यात्वप्रसक्तेः । न च तत्र बाधकाभावात् सार्थतेति वक्तव्यम् अत्रापि १५ समानत्वात् बाधारहिता हि सविकल्पा प्रतिपत्तिः प्रमा नान्येत्यभ्युपगमात् । न च मनसः सर्वत्रातीते अनागते वाऽव्याहतप्रसरत्वादुत्पाद्यमाने भावे तदध्यवसायस्य मनोजन्यत्वेनाध्यक्षता युक्ता चक्षुरादेस्त्वतीतानागतयोरविषयत्वेन तत्प्रतीतेः कथमध्यक्षतेति वक्तव्यम् उक्तोत्तरत्वात् अतीतानागतविषयस्य मानसाध्यक्षत्वेऽपि वा क्षणप्रतिभासलक्षणस्य हेतोरसिद्धता भवत्येव अबाधितमानसाध्यक्षेण भावानामेकत्वग्रहणात् । २० यदपि 'किं क्षणिकेन ज्ञानेन स्थायिता युगपत् क्रमेण वा भावानां गृह्यते, आहोस्वित् अक्षणिकेन' इति विकल्प्य सर्वत्र दोषप्रतिपादनं कृतम् तत् क्षणिकत्वग्रहेऽपि समानम् । तथाहि-न क्षणिके ज्ञाने क्षणस्थिति-क्षणान्तरस्थित्योर्युगपत् क्रमेण वा प्रतिभासे तयोर्भेदप्रतिपत्तिः परस्पराभावस्य भावग्राहिणि तत्राप्रतिभासनाद् भावाभावयोर्विरोधात् तदप्रतिभासने च न तद्भेदप्रतिपत्तिः अभावप्रतिपत्तौ वा भावाभावयोर्विरोधाभावात् न क्षणस्थिति-क्षणान्तरस्थित्योर्भेदप्रतिपत्तिः । नापि२५ तयोरप्रतिभासने मेदावगतिः प्रतियोगिग्रहणसव्यपेक्षत्वाद् भेदप्रतिपत्तेरिति भवतैवाभिधानात् । अन्तर्बहिश्च स्थिरस्थूराध्यक्षप्रतिभासबाधितत्वाच्च प्रकृतविकल्पानामनुत्थानमिति न प्रतिपदमेषां निराकरणे प्रयत्नः सफलः पिष्टपेषणरूपत्वात् दियात्रप्रदर्शनं तु विहितमेवेत्यलमतिविसारिण्या कथया। तत् क्षणक्षयप्रसाधने प्रत्यक्षादेः प्रमाणस्यानवताराद् बाधकत्वेन च तस्यैकत्वाध्यवसायिनः प्रवृत्तिप्रतिपादनात न पर्यायास्तिकाभिमतपूर्वापरक्षणविविक्तमध्यक्षणमौत्रं वस्तु किन्तु ३० अतीतानागतपर्यायाधारमेकं द्रव्यवस्त्विति द्रव्यार्थिकनिक्षेपः सिद्धः। [द्रव्यनिक्षेपविषयस्य द्रव्यस्य आगमोक्तरीत्या स्वरूपवर्णनम् ] द्रव्यं च अनुभूतपर्यायम् अनुभविष्यत्पर्यायं चैकमेव तेन 'अनुभूतपर्याय'शब्देन तत् कदाचिदभिधीयते कदाचिच्च 'अनुभविष्यत्पर्याय'शब्देन यथा अतीतघृतसम्बन्धो घटो 'घृतघटः' इत्यमिधीयते भविष्यत्तत्सम्बन्धोऽपि तथैवाभिधानगोचरचारी। शुद्धतरपर्यायास्तिकेन च निरा-३५ कारस्य ज्ञानस्यार्थग्राहकत्वासम्भवात् साकारं ज्ञानमभ्युपगतम् तत्संवेदनमेव चार्थसंवेदनम् ज्ञानानुभवव्यतिरेकेणापरस्यार्थानुभवस्याभावात् घटोपयोग एव घटस्तन्मतेन । तत्पर्यायेण अतीतेन १-ष्टं पूर्वदृशं पश्या-मां० ।-टं पश्या-आ० हा० वि०। २ इममे-वा० बा० ३-व चा नि-बृ० । ४-माध्यक्ष-मां०। ५ “यथाक्रमं हेतुद्वयं योज्यम्"-बृ० मां० टि०। ६-त्यार्थेति वा० बा०। ७-कल्पकां प्र-वा० बा०। ८-दुत्पद्य-प्र० मां० बहिः। ९ “अध्यवसायस्य"-बृ० मां० टि.। १०-दन तत् वा० बा० । ११-वस्य भावस्य ग्राहि-वा० बा० ।-वग्राहि-आ०। १२-पत्तेरपि भ-वा० बा० ।-पत्तिरिति भ-आ०१ १३-मात्र व-आ०। १४ायं वैक-वा. बा०। १५-नच त-आ० । ५२ स० त०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy