SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेतथाप्रतिभासात् सिद्धम् इतरेतराश्रयप्रसक्तेः। तथाहि-प्रतिभासात् क्षणिकत्वसिद्धौ एकत्वव्यवहारो भ्रान्तः सिध्यति तत्सिद्धेश्च तथाप्रतिभाससिद्धौ क्षणिकता सिध्यतीतीतरेतराश्रयत्वम् । न चान्यदनुमानं क्षणिकताप्रतिपादकमस्ति यत एकत्वव्यवहारस्य भ्रान्तता भवेत् । न च भाविजन्मपरम्पराग्रहणप्रसक्तिराद्यप्रत्यक्षेण कालान्तरस्थायिताप्रतिपत्तौ यतोऽबाधितप्रतिपत्ती यत् प्रतिभाति तदेव ५तबाह्यतया व्यवस्थाप्यते नत्वप्रतिभासमानस्यापि ग्राह्यताप्रसक्तिप्रेरणं युक्तिसङ्गतम् । नहि 'सुरमि चन्दनम् इति विशेषणविशेष्यभावग्रहणे वाहोऽपि विपये बाह्यन्द्रियनिरपेक्षं स्वातन्येण प्रवृत्तं मानसमध्यक्षमेकीयमतेनेति सर्वत्रैव तत् प्रवर्ततामिति प्रेरणायुक्तिसङ्गता सर्वस्य तत्राप्रतिभासनात् यत्रैव विशेषणविशेष्यभावनियतं लिङ्गाद्यनपेक्षं मनः प्रवर्तते तत्रैव तद्रहणव्यापारोऽभ्युपगन्तव्यः न सर्वत्र एवं भाविकालान्तरादिस्थितेरपि वक्तव्यम् यतः तत्रापि भाविकालादीनामसन्निहितत्वेऽपि १० तद्यापिनो भावस्य सन्निहितत्वात् तत्र व्याप्तमक्षं तद्विशेषणत्वव्यवस्थितानां भाविकालादीनामपि ग्राहकम् न चैवं तदनिन्द्रियजमसन्निहितार्थजत्वेन भ्रान्ततरं च इन्द्रियान्वय-व्यतिरेकानुविधानेन सन्निहिते 'विशेष्ये भावात्, न चासन्निहितानां भाविकालादीनां तत्राप्रतिभासः विशेष्यप्रतिभासाऽऽकृष्टानां शतादिग्रहणे पूर्वसङ्ख्येयानामिव तेषां तत्र प्रतिभासंसंवेदनात् अन्यथा अस्ख लद्रप एकत्वनिवन्धन उपादेयव्यवहारस्तत्र कथं भवेत? इत्युक्तमसन्निहितार्थस्यापि चेन्द्रियजत्वं १५तैमिरिकन्नानस्येवोपपन्नम् केवलमसत्यत्वे विवादः तत्र च वाधकाभावात् कालान्तरस्थायिता प्रतिपत्तेः सत्यता व्यवस्थाप्यते । न च विषयसन्निधानासन्निधाने इन्द्रियजत्वप्रयोजके अपि त्विन्द्रियव्यापारानुविधानम् तच्चात्रास्तीति कथं न कालान्तरस्थितिप्रतिपत्तिरक्षजा? न चावच्छेदकाऽग्रहणेऽवच्छेद्यस्याप्यग्रहणमिति वक्तव्यम् अवच्छेदकप्रतिभासस्य प्रसाधितत्वात् । किञ्च, यदि पूर्वापरविविक्तमध्यक्षणप्रतिभास्येव अध्यक्ष भवेत् तदा वाधकसंवादप्रत्यया२० नुत्पत्तितः प्रमाणेतरव्यवहारो ज्ञानानां विशीर्येत । तथाहि-बाधकं पूर्व विषयापहारेणोत्पत्तिमासादयति पूर्वप्रत्ययेन च ययुत्तरप्रत्ययसमये स्ववियसत्त्वं' नावभातं तदा स्वसमये बाधकेन पूर्व विज्ञानगोचरस्यासत्वावेदनेऽपि कथं वाधकता ? नहि विनाशकारणव्यापारोत्तरकालभा. विभावासत्त्वावेदकज्ञानस्य पूर्वज्ञानवाधकता । न च बाधकेन पूर्वविज्ञानविषयस्य पूर्वमेवासत्त्व. परिच्छेदात् वाधकता तस्य पूर्वविज्ञानविषये प्रवृत्त्यभ्युपगमप्रसक्तेरिति वाध्यवाधकभावाभ्युपगमे २५ पूर्वोत्तरविज्ञानयोरेकविषयता अभ्युपगन्तव्या अन्यथा सन्तानकल्पनाया असम्भवतो बाध्यबाधकभावविलोपप्रसक्तेरप्रामाण्यव्यवस्था न क्वचित् विज्ञाने भवेत् पूर्वविज्ञानविषये अविजातीयोत्तरज्ञानवृत्तिः संवादः सोऽपि पूर्वापरज्ञानविषयैकत्वे सम्भवति नान्यथेति तद्यवहारादपि स्थायिताग्राह्यध्यक्षसिद्धिः पूर्वज्ञानवदुत्तरज्ञानमपि 'तदेवेदम्' इत्युल्लेखवत् पूर्वक्षणेषु वर्त्तते इत्यभ्युपगन्तव्यम् न्यायस्य समानत्वात् । न च पूर्वदेश-काल-दशा-दर्शनानामुत्तरज्ञानप्रतिभासे ३०तहेशादिताप्रसक्तिरिति वर्तमानतामात्रग्रहणात् क्षणिकताह एव अग्रहणे न तेन स्वविषयस्य पूर्वादिताग्रह इति वक्तव्यम् क्षणिकत्वग्रहेऽप्यस्य चोद्यस्य समानत्वात् । तथाहि-उत्तरज्ञानेन पूर्वदेशादीनां ग्रहणे न स्वविषयस्य ततो 'भेदग्रहः अग्रहणेऽपि सुतरां तेषामग्रहे 'ततो भिन्नमिदम्' इति प्रतीतेरयोगात् प्रतियोगिग्रहणसव्यपेक्षत्वाद् भेदावगतेः । न च स्वविषयस्य तेन तदनुप्रवेशा १-वर्तनमि-भां० मां०। २ व्यावृत्तम-आ०। ३ भ्रान्तरं च भां० हा० वि० । भ्रान्तं च ६० ल. वा. बा०। ४ विशेष्यभा-आ०। ५ "तद्विशेषणत्वेन"-मां० टि.। ६ “भाविकालादीनाम्"-बृ. मां० टि०। ७"तद्विशेषणत्वेन"-बृ० टि०। ८ "ज्ञानस्य"-मां० टि०। ९न वि-आ० । १०-धानेन्द्रियव्यापा-बृ०। ११ “भाविकाल"-मांटि०। १२-ध्यक्षेण-आ० हा०वि०। १३-शीर्यते त-बृ० ल. वा. बा० विना। १४-षयं स-मां०। १५-त्वंनावभाव तदा बृ० ।-वंतावभावत्तदा वा० बा०। १६ “ततो यथा पूर्वस्मिन् विज्ञानेऽसत्यपि प्रवृत्तिर्बाधकस्य तथा भाविकालेऽपि किं न स्यात् । तथा च नित्यता कथं सिध्येत् (न सिध्येत्)" बृ० टि.। १७-ग्रहण एव अग्र-आ० ।-ग्रह एवं अन-भां० हा०वि०। १८ मेदः अग्रहणे-वा० बा। मेदग्रहणेऽ-हा०वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy