SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेबाधाभावादर्थतथात्वसिद्धिः। न च स्तम्भादीनां परमार्थतस्तत्त्वं सम्बन्धस्य प्रतिभासविषयत्वात्। अप्रतिभासविषयत्वे कथं न तद्भावः अप्रतिभासविषयस्यातत्त्वरूपत्वात् न च संवादित्वादपि स्तम्भादेः सत्यत्वम् समानजातीयोत्तरकालभाविज्ञानवृत्तिलक्षणस्य संवादस्य यावत् तिमिरं तावदिन्दुद्वयादावपि भावात् । नापि भिन्नजातीयाज्ज्ञानसंवादात् , भ्रान्तज्ञानावभासिनो रजतादेः शुद्धि५(क्ति)काज्ञानसंवादात् सत्यत्वप्रसक्तेः, न चैकार्थाद् भिन्नजातीयज्ञानसंवादात् एकार्थत्वे पूर्वापर ज्ञानयोरविशेषात् संवादाज्ञानवत् संवादकस्यापि सत्यत्वव्यवस्थापकत्वायोगात्। न च रूप-स्पर्शज्ञानयोर्विजातीययोरेकार्थविषयत्वम् रूप-स्पर्शयोर्भेदात् । न च रूप-स्पर्शाधिकरणमेकं द्रव्यं तयोर्विषयः एकत्वे प्रमाणवृत्तेः प्रतिपादितत्वात् । नापि भिन्नविषयात् संवादप्रत्ययात् संवादे सत्त्वसिद्धिः शुद्धि(क्ति)कादर्शनात् भ्रान्तगवगतरजतादेः प्र(स)त्यताप्रसङ्गात् । न च स्पर्शज्ञानम१०र्थाभावेनोपलब्धसर्वसत्यप्रतिभासमानस्य दशायां तदभावेऽपि तदुदयोपलब्धेः। न च स्वप्न-जाग्रद्दशाभाविनोज्ञा (आ)नयोः कश्चिद्विशेष इति न संवादादपि सत्यता । न च जाग्रहशायामिव स्वप्नदशायामपि यद॑वति तत् सर्व सत्यं प्रतिभासमानस्यासत्तायोगात् । दृष्टान्तासिद्धितो न सर्वभावाभावः प्रतिभासमानस्य स्तम्भादेरेकानेकरूपतयाऽव्यवस्थितेः । तथाहि-कालभेदाद् भिन्नो ऽध्यक्षतः प्रतिपत्तुं शक्यम् सन्निहित एव तस्य वृत्ते(त्तेः) नहि मृत्पिण्डस्वरूपोह्यध्यक्षं तदा१५ऽसन्निहितं घटमुपलभते तदनुपलम्भे च न तदपेक्षया तेन स्वविषयस्य भेदोऽधिगन्तुं शक्यः प्रतिपादियोगि(प्रतियोगि)ग्रहणमन्तरेण ततो भिन्न मितिन( मित्यन)धिगते तेः)। नापि घटस्व रूपग्राहिणा तेन मृत्पिण्डाद् भेदोऽधिगम्यते तत्स्वरूपाग्रहणे तस्याप्रवृत्तेः। न च स्मरणमपि मेदो. s(दा)धिगमे प्रभुः(भु) अध्यक्षे गृहीत एवार्थे तस्य व्यावृत्तेः (व्यापृतेः)। न वाध्यक्षमेतद्रहणक्षममिति प्रतिपादितत्वात् । न च स्मरणमर्थग्रहणे प्रभवति तस्य स्वरूपमात्रपर्यवसितत्वात् । तत एव २० स्मरणसहायमप्यवाक्षं(प्यध्यक्षं) न भेदग्रहणे पटु । न पूर्वरूपाग्रहणमेव ततो मेदवेदनं तद्ब्रहणस्य व्यवस्थापयितुमशक्तेः । न च तत्स्वरूपमेव भेद इति तद्रहणात् सोऽपि गृहीतः, न; अपेक्षया भेदव्यवस्थितेः अन्यथा स्वरूपापेक्षयापि भेदप्रसक्तेरिति न कालभेदाद् भेदः प्रमाणगोचरः । नापि २'देशभेदाद् भावभेदे मे देशस्याप्यपरदेशमेदाद् भेदशक्तितोऽनवस्थाप्राप्तः। न चान्यभेदो ऽन्यत्रानुविशतीति न देशभेदादपि तद्भेदः । नापि स्वरूपभेदाद् भावभेदः नहि समानकालमुद्भा. २५ समानयोर्घट-पटयोर्भिन्नं संवेदनं भेदमवस्थापयति प्रकाशमाननील-सुखादिव्यतिरेकेण तस्यानुपलम्भतोऽसत्त्वात् सत्त्वेऽपि समानकालस्य भिन्नकालस्य वाऽध्यक्षस्य परोक्षस्य वा ग्रहणक्रियासहितस्य तद्विका(क)लस्य वा तस्यार्थग्राहकत्वे(त्वा)नुपपत्तेरिति ज्ञाननयप्रस्तावप्रतिपादितत्वान्न भेदग्राहकत्वम्। न च तस्य स्वयमथोद भेदेनाप्रतीतस्य भेदग्राहकत्वमन्यथा खरविषाणादेरपि तत्प्रतिशक्तीत त्प्रसक्तेः) । न च तस्यै भेदो शाताज्ञानादवसीयते तस्याप्यप्रतिपन्नभेदस्य तेंद्रेदाव्यवस्थापकत्वादित्या३० धनवस्थाप्रसक्तेः । न च स्वसंवेदनत एव तद्भेदः सिध्यति तथाभ्युपगमे स्वखरूपमात्रपर्यवसितत्वात् तस्य नीलादिभेदब्यवस्थापकत्वानुपपत्तेः । न च स्वत एव स्तम्भादयो भिन्नखरूपा(पाः) प्रथन्ते तथा १-मार्थतस्त्वं सत्वंध-भां० मा० ।-मार्थतस्तं सत्वंध-आ० ।-मार्थतखं सत्वंध-हा० वि० । २-यस्यान्त-वा० बा० मा० आ० हा० वि०। ३-याज्ञा-वा. बा. हा०वि०। ४-दात भ्रान्त-भां० हा०। -दाव भ्रान्त-मां०।-दा भ्रान्त-वि०। ५-वादशा-मां०। ६ प्रत्यन्ताप्र-भां० मां० हा० वि०। प्रत्येताप्रगासेन्नच आ०। ७-ब्ध सवसत्य-आ० ।-ब्धत् सर्वसत्यं प्रतिभासमानस्याद-वा० बा०। ८-दव वि त-वा. बा०। ९ सत्य प्र-आ० । वि० सं०। १०-सत्वायो-वा. बा०। ११-त्तायोगादृष्टान्ताआ० हा० वि ।-त्तायोगादृष्टान्तात् सि-वा० बा० ।-त्तायोगादृष्टाता-मां०। १२ शक्य संनि-वा० बा०। १३-रूपं ग्रा-वा० बा० मा० आ० हा० वि० । १४-ग्राह्याध्य-वा० बा० विना। १५ च त त-आ० हा० वि०। १६-नमिनधि-भां० मां० हा० ।-नमि नधि-वा० बा० ।-नमिवमनधि-वि० ।-नमेवमनधि-वि० सं०। १७-त ग्रहण-वा० बा०। १८-णछममि-वा० बा०।-ण छममि-भां० मां० हा०।-णमत्थममि-वि०। १९-मर्थ प्रतिपादितत्वान्न च स्मरणमर्थग्रहणे आ० विना। २. पूर्वी रू-वा. बा. विना। २१ देशभेदाद् भेदशक्ति-भां० । देशभेदे मे देशस्याप्यपरदेशभेदाद् भेदशक्ति-आ०। 'देशभेदाद् भावमेदः देशस्यापि अपरदेशभेदात् भेदशक्तितोऽनवस्थाप्राप्तेः' इति पाठो योज्यः। २२-स्य भेदो शतोज्ञावा० बा० । २३-तद्भेदव्यव-आ०। २४ स्वरू-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy