SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३५६ प्रथमे काण्डेन च तदुल्लेखमात्रभ्रान्तदर्शनावभासिनः केशादेः सत्यता । अथ तत्र बाधकसद्भावादसत्यता, न; बाधाऽयोगादित्यभिधानात् । [?? न च बहिरर्थाभावेऽपि कथं ग्राह्यताऽध्यवसायादयः वितथदर्शनावैसेये केशकलापाध्यवसायेऽप्य(प्यस्य) समानत्वात् । अथात्र सत्यकेशग्राह्यताऽध्यारोप्यते वितथकेशाभावे अर्थाभावे तु सर्वसंविदां न क्वचित् पूर्वदर्शनदृष्टा ग्राह्यता वर्तमानदर्शनेऽध्यारोप्यते तत्रा५प्यपरपूर्वदर्शनदृष्टा तत्राप्येवमित्यनादिरध्यारोपपरम्परा वहिरर्थाभावेऽपि व्यवहार निबन्धनं युक्तैवेति ??] । अपि च, तुल्यकालं प्रकाशमानवपुर्नीलमुद्भासयन्ती(न्तीं) प्रतीतिमभ्युपतैत्य(भ्युपेत्य) व्यापाराभावाद् ग्राह्यग्राहकभावे(वः) प्रतिक्षिप्तः जैव प्रतीतिर्विचार्यमाणा न सङ्गच्छते कुत एवार्थग्राहिणी स्यात् ? तथाहि-अनुभूयमानमर्थाक(का)रं विहाय नान्या प्रति(?)यदाभाति यतः प्रकाश मानं नीलादिकं बहिः अन्तश्च सुखादि स्वसंविदितं विरहय्य नान्या संवित् सता(ती) कदाचित् १० प्रतिभाति इत्यसती सा कथमर्थग्राहिणी भवेत् ? न च सुखादिकमेवाहंकार(रा)स्पदस्य(?)तं हृदि परिवर्तमानं नीलादे ग्राहकम्, मुत्पादेः(सुखादेः) प्रतिभालमानवपुपो ग्राहकत्वानुपपत्तेः। तथाहिसुखादयः स्वसंविदिता हृदि प्रकाशन्ते नीलादयस्तु वहिस्तथाभूता एवाऽऽभान्ति, न च परस्पराऽसंसृष्टवपुषोस्तयोः समानकालयोः वेद्यवेदकता, तुल्यकालता(त)या प्रकाशमाननील-पीतयोरपि रतस्त-द्भावापत्तेः । न च सुखादिराकारः स्वपरप्रकाशतया प्रतिभासमानो नीलादेर्वेदकः १५ सवितृप्रकाश इव घटादीनाम् । यतो दर्शनात्मनः प्रकाश एव किं वहिरर्थावभासः, आहोस्विद् दर्शनकाले तेषां प्रत्यक्षात्मता? आद्ये विकल्पे ज्ञानात्मनः प्रकाशः स्वसंविद्रूपोऽनुभवः तत् ज्ञानस्य रूपं न बाह्यार्थात्मनाम् अन्यथा प्रत्यक्षात्मतया तयोरभेदप्रसङ्गः। तन्न दर्शनानुभव एव नीलानु वः । अथ दर्शनसमये प्रत्यक्षं नीलादिस्यरूपं तेषामनुभवः; नन्वत्रापि दर्शनोदयसमये यदि पदार्थप्रत्यक्षता तथासति सामग्रीवशात् प्रत्यक्षाकारं नीलमुत्पादितमिति दर्शनवत् तत् स्वसंविदितं प्रसक्तम् । २० अत एव दृष्टान्तोऽपि अत्रासङ्गनः । तथाहि-सवितृप्रकाशः स्वरूपनिमग्न एवाभाति घटादिरपि स्वात्म. निश्व(प्ठ) एव भासत इति नानयोरपि परस्परं प्रकाश्यप्रकाशकभावः । अपि च, आलोकोद्(काद्) घटादिः प्रकाशरूपः प्रादुर्भवतीत्यालोकः प्रकाशकः स्यात्, उपकाराभावे व्यतिरिक्तोपकारप्रादुर्भावे वा घटादीनां प्रकाशायोगात् । न चात्राहङ्कारास्पंदनंतर्दनं(दमन्तदर्शनं) बहिःपरोक्षाकारमर्थ जनयति, तुल्यकालतया हेतुफलभावायोगात् उपकार्योपकारकभावमन्तरेण बाह्यार्थानामन्तईशां २५चै तद्य(वेद्य)वेदकभावानुपपत्तेः सर्व वस्तुस्वं(सं)विन्मात्रकमेवेति स्थितम् । [?? न च नीलादिव्यतिरिक्तबोधानभ्युपगमे नीलस्वरूपः प्रकाशः पीतस्य प्रकाश न नीलप्रकाश एव पीतस्य प्रकाशोऽभ्युपगम्यते ??] तयोर्भेदेन प्रतिपत्तेः नहि नीलप्रकाशः पीतप्रकाशानुगामितया प्रतिभाति नौपि पीतात्मानुभवो नीला(ल)स्वरूपानुभवानुप्रविष्टः प्रकाशत इति कथं नील-पीतयोरनुभवः ? तथाभ्युपगमो(मे) वा सर्वपदार्थसङ्कार्य(सार्य)प्रसक्तिः । न च 'अनुभवः' 'अनुभवः' इत्ये. ३० करूपतयोत्पत्तेरनुभवत्ये(स्यै)कता; प्रतिपदार्थ 'स्वरूपम्' 'स्वरूपम्' इत्येकत्वाध्यवसायोत्पत्तेः सर्व १-भासित के-आ० हा०वि०। २-धायो-वा. बा. विना। ३-वसेयो के-वा. बा०।-घसे केभा. मां०। ४ अथात्र समानत्वादथात्र सत्यं के-भां० मां०। ५ सत्यं के-आ. हा. वि.। ६-विदा न भां०। ७ युक्तेवे-आ. विना। ८-य तान्या आ०। ९-मान नी-भां० मा०। १०-रप नान्या सं-हा० वि० ।-रपनान्यां सं-भां. मां० ।-रप न्या संवि शत कदा-आ०। ११-कारस्पदस्यं तं वा० बा० ।-कारस्पतं हा०। १२-कमुत्पादादेः वा. बा. विना। १३-संस्पृष्ट-वा० बा०। १४-खाराकाभां० माआ. हा० वि०। १५-र्शना का-वा. वा. विना। १६-दूपांनु-आ। १७ दर्शनानुभव एव नीलानुभवा एव नीलानुभवाऽथ दर्शनानुभवो एव नीलानभवोऽथ दर्शनसम-वा. बा०। १८-भवोऽत् प्रदर्श-आ०। १९ यदपि पदा-वा. बा. विना। २०-निश्वय ए-आ० ।-निश्चय ए-भां० मा हा० वि०। २१ आलोकोडघटा-हा० । आलोकोद घाटा-वा० बा०। २२-भावेऽपि व्य-आ० । २३-स्पदनंतदर्शनंतदर्शनं बहिः-आ० ।-स्पदनतर्दर्न बहि प-वा. बा०। २४-स्तदृशां वा० बा० ।-स्तदेशों आ० । २५ च नह्मवेदंक-भ० मां० । च नावेदक-आ०। २६ सर्व वसुखंवि-मां० । सर्व त्रसु. खवि-भा०। २७-काशन नीलप्रकाशन नीलप्रकाश एव वा० बा०। २८-काशानुरागितया वा० बा० विना। २९ नापि चात्मानुभावा नीलास्व- मानापि वात्मानुभावा नीलास्व-भां०। ३०-तया (रकानु)-वा० बा०। ३१-त्पत्तिर-भां० मां०। ३२-दार्थ स्वरूपं मित्येकत्वा-आ०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy